मणीन्द्रसारनिर्माणैः शोभितं लक्षमन्दिरैः । शोभितं रत्नसोपानै रत्नस्तम्भविराजितम्
तद् दृष्ट्वा पुष्पदन्तोऽपि वरं द्वारं ददर्श सः । द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम्
तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् । कथयामास वृत्तान्तं जगाम तदनुज्ञया
अतिक्रम्य च तद्द्वारं जगामाभ्यन्तरं पुनः । न कोऽपि रक्षति श्रुत्वा दूतरूपं रणस्य च
गत्वा सोऽभ्यन्तरद्वारं द्वारपालमुवाच ह । रणस्य सर्ववृत्तान्तं विज्ञापयत माचिरम्
स च तं कथयित्वा च दूतो गन्तुमुवाच ह । स गत्वा शङ्खचूडं तं ददर्श सुमनोहरम्
राजमण्डलमध्यस्थं स्वर्णसिंहासने स्थितम् । मणीन्द्ररचितं दिव्यं रत्नदण्डसमन्वितम्
रत्नकृत्रिमपुष्पैश्च प्रशस्तैः शोभितं सदा । भृत्येन मस्तकन्यस्तं स्वर्णच्छत्रं मनोहरम्
सेवितं पार्षदगणै रुचिरैः श्वेतचामरैः । सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम्
माल्येन लेपनं सूक्ष्मं सुवस्त्रं दधतं मुने । दानवेन्द्रैः परिवृतं सुवेषैश्च त्रिकोटिभिः
शतकोटिभिरन्यैश्च भ्रमद्भिरस्त्रपाणिभिः । एवंभूतञ्च तं दृष्ट्वा पुष्पदन्तः सविस्मयः
उवाच स च वृत्तान्तं यदुक्तं शङ्करेण च । पुष्पदन्त उवाच राजेन्द्र शिवभृत्योऽहं पुष्पदन्ताभिधः प्रभो
यदुक्तं शङ्करेणैव तद् ब्रवीमि निशामय । राज्यं देहि च देवानामधिकारं च साम्प्रतम्
देवाश्च शरणापन्ना देवेशं श्रीहरिं परम् । हरिर्दत्त्वास्य शूलं च तेन प्रस्थापितः शिवः
पुष्पभद्रानदीतीरे वटमूले त्रिलोचनः । विषयं देहि तेषां च युद्धं वा कुरु निश्चितम्
गत्वा वक्ष्यामि किं शम्भुमथ तद्वद मामपि । दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च
प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवाच ह । स गत्वोवाच तं तूर्णं वटमूलस्थमीश्वरम्
शङ्खचूडस्य वचनं तदीयं तन्मुखोदितम् । एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम्
वीरभद्रश्च नन्दी च महाकालः सुभद्रकः । विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः । कपिलाख्यो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः
कालकण्ठो बलीभद्रः कालजिह्नः कुटीचरः । बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा
अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः । वसवोऽष्टौ वासवश्च आदित्या द्वादश स्मृताः
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ । कुबेरश्च यमश्चैव जयन्तो नलकूबरः
वायुश्च वरुणश्चैव बुधश्च मङ्गलस्तथा । धर्मश्च शनिरीशानः कामदेवश्च वीर्यवान्
उग्रदंष्ट्रा चोग्रदण्डा कोटरा कैटभी तथा । स्वयं चाष्टभुजा देवी भद्रकाली भयङ्करी
रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता । रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना
नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा । अभयं ददाति भक्तेभ्योऽभया सा च भयं रिपुम्
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् । शङ्खचक्रगदापद्मखड्गचर्मधनुःशरान्
खर्परं वर्तुलाकारं गम्भीरं योजनायतम् । त्रिशूलं गगनस्पर्शि शक्तिं च योजनायताम्
मुद्गरं मुसलं वज्रं खेटं फलकमुज्ज्वलम् । वैष्णवास्त्रं वारुणास्त्रं वाह्नेयं नागपाशकम्