गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् । पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम्
इत्येवं शङ्खचूडश्च पुनस्तत्रैव यास्यति । महाबलिष्ठो योगेशः सर्वमायाविशारदः
मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् । शिवः करोतु संहारं मम शूलेन रक्षसः
ममैव कवचं कण्ठे सर्वमङ्गलकारकम् । बिभर्ति दानवः शश्वत्संसारे विजयी ततः
तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः । तद्याचनां करिष्यामि विप्ररूपोऽहमेव च
सतीत्वहानिस्तत्पत्न्या यत्र काले भविष्यति । तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया
तत्पत्न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् । तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः
पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया । इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च
शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा । भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः
शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् श्रीनारायण उवाच ब्रह्मा शिवं संनियोज्य संहारे दानवस्य च । जगाम स्वालयं तूर्णं यथास्थानं सुरोत्तमाः
चन्द्रभागानदीतीरे वटमूले मनोहरे । तत्र तस्थौ महादेवो देवविस्तारहेतवे
दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम् । शीघ्रं प्रस्थापयामास शङ्खचूडान्तिकं मुदा
सर्वेश्वराज्ञया शीघ्रं ययौ तन्नगरं परम् । महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम्
पञ्चयोजनविस्तीर्णं दैर्घ्ये तद् द्विगुणं भवेत् । स्फटिकाकारमणिभिर्निर्मितं यानवेष्टितम्
सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् । ज्वलदग्निनिभैः शश्वत्कल्पितं रत्नकोटिभिः
युक्तं च वीथीशतकैर्मणिवेदिविचित्रितैः । परितो वणिजां सौधैर्नानावस्तुविराजितैः
सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः । भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः
गत्वा ददर्श तन्मध्ये शङ्खचूडालयं परम् । अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम्
ज्वलदग्निशिखाक्ताभिः परिखाभिश्चतसृभिः । तद्दुर्गमं च शत्रूणामन्येषां सुगमं सुखम्
अत्युच्चैर्गगनस्पर्शिमणिशृङ्गविराजितम् । राजितं द्वादशद्वारैर्द्वारपालसमन्वितम्
मणीन्द्रसारनिर्माणैः शोभितं लक्षमन्दिरैः । शोभितं रत्नसोपानै रत्नस्तम्भविराजितम्
तद् दृष्ट्वा पुष्पदन्तोऽपि वरं द्वारं ददर्श सः । द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम्
तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् । कथयामास वृत्तान्तं जगाम तदनुज्ञया
अतिक्रम्य च तद्द्वारं जगामाभ्यन्तरं पुनः । न कोऽपि रक्षति श्रुत्वा दूतरूपं रणस्य च
गत्वा सोऽभ्यन्तरद्वारं द्वारपालमुवाच ह । रणस्य सर्ववृत्तान्तं विज्ञापयत माचिरम्
स च तं कथयित्वा च दूतो गन्तुमुवाच ह । स गत्वा शङ्खचूडं तं ददर्श सुमनोहरम्
राजमण्डलमध्यस्थं स्वर्णसिंहासने स्थितम् । मणीन्द्ररचितं दिव्यं रत्नदण्डसमन्वितम्
रत्नकृत्रिमपुष्पैश्च प्रशस्तैः शोभितं सदा । भृत्येन मस्तकन्यस्तं स्वर्णच्छत्रं मनोहरम्
सेवितं पार्षदगणै रुचिरैः श्वेतचामरैः । सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम्
माल्येन लेपनं सूक्ष्मं सुवस्त्रं दधतं मुने । दानवेन्द्रैः परिवृतं सुवेषैश्च त्रिकोटिभिः