गङ्गया परया भक्त्या सेवितं श्वेतचामरैः । सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् । ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा
पुलकाञ्चितसर्वाङ्गाः साश्रुनेत्राश्च गद्गदाः । भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः
कृताञ्जलिपुटो भूत्वा विधाता जगतामपि । वृत्तान्तं कथयामास विनयेन हरेः पुरः
हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् । प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम्
श्रीभगवानुवाच शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज । मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा
शृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् । गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम्
सुदामा नाम गोपश्च पार्षदप्रवरो मम । स प्राप दानवीं योनिं राधाशापात्सुदारुणात्
तत्रैकदाहमगमं स्वालयाद्रासमण्डलम् । विरजामपि नीत्वा च मम प्राणाधिका परा
सा मां विरजया सार्धं विज्ञाय किङ्करीमुखात् । पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम्
विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् । पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह
मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा । भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम्
तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह । स च तां भर्त्सयामास कोपेन मम सनिधौ
तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्कजलोचना । बहिष्कर्तुं चकाराज्ञां संत्रस्तं मम संसदि
सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् । बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः
सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह । याहि रे दानवीं योनिमित्येवं दारुणं वचः
तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च । वारयामास तुष्टा सा रुदती कृपया पुनः
हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः । समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम्
गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः । ते सर्वे राधिका चापि तत्पश्चाद् बोधिता मया
आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् । सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता
गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् । पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम्
इत्येवं शङ्खचूडश्च पुनस्तत्रैव यास्यति । महाबलिष्ठो योगेशः सर्वमायाविशारदः
मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् । शिवः करोतु संहारं मम शूलेन रक्षसः
ममैव कवचं कण्ठे सर्वमङ्गलकारकम् । बिभर्ति दानवः शश्वत्संसारे विजयी ततः
तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः । तद्याचनां करिष्यामि विप्ररूपोऽहमेव च
सतीत्वहानिस्तत्पत्न्या यत्र काले भविष्यति । तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया
तत्पत्न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् । तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः
पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया । इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च
शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा । भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः
शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् श्रीनारायण उवाच ब्रह्मा शिवं संनियोज्य संहारे दानवस्य च । जगाम स्वालयं तूर्णं यथास्थानं सुरोत्तमाः