मण्डितां मण्डलाकारै रत्नदर्पणकोटिभिः । विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम्
पद्मरागेन्द्ररचितां रुचिरां मणिपङ्कजैः । सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः
पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः । इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम्
सद्रत्नपूर्णकुम्भानां समूहैश्च समन्विताम् । पारिजातप्रसूनानां मालाजालैर्विराजिताम्
कस्तूरीकुङ्कुमारक्तैः सुगन्धिचन्दनद्रुमैः । सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना
विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् । सहस्रयोजनायामां परिपूर्णां च किङ्करैः
ददर्श श्रीहरिं ब्रह्मा शङ्करश्च सुरैः सह । वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम्
अमूल्यरत्ननिर्माणचित्रसिंहासने स्थितम् । किरीटिनं कुण्डलिनं वनमालाविभूषितम्
चन्दनोक्षितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् । पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा
शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् । लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम्
गङ्गया परया भक्त्या सेवितं श्वेतचामरैः । सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् । ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा
पुलकाञ्चितसर्वाङ्गाः साश्रुनेत्राश्च गद्गदाः । भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः
कृताञ्जलिपुटो भूत्वा विधाता जगतामपि । वृत्तान्तं कथयामास विनयेन हरेः पुरः
हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् । प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम्
श्रीभगवानुवाच शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज । मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा
शृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् । गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम्
सुदामा नाम गोपश्च पार्षदप्रवरो मम । स प्राप दानवीं योनिं राधाशापात्सुदारुणात्
तत्रैकदाहमगमं स्वालयाद्रासमण्डलम् । विरजामपि नीत्वा च मम प्राणाधिका परा
सा मां विरजया सार्धं विज्ञाय किङ्करीमुखात् । पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम्
विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् । पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह
मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा । भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम्
तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह । स च तां भर्त्सयामास कोपेन मम सनिधौ
तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्कजलोचना । बहिष्कर्तुं चकाराज्ञां संत्रस्तं मम संसदि
सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् । बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः
सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह । याहि रे दानवीं योनिमित्येवं दारुणं वचः
तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च । वारयामास तुष्टा सा रुदती कृपया पुनः
हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः । समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम्
गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः । ते सर्वे राधिका चापि तत्पश्चाद् बोधिता मया
आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् । सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता