देवोद्याने नन्दने च चित्रचन्दनकानने । चम्पकानां केतकीनां माधवीनां च माधवे
कुन्दानां मालतीनां च कुमुदाम्भोजकानने । कल्पवृक्षे कल्पवृक्षे पारिजातवने वने
निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते । काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे
पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते । पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना
कामुक्या कामुकः कामात्स रेमे रामया सह । न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा
हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः । तया सह समागत्य स्वाश्रमं दानवस्ततः
रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः । एवं स बुभुजे राज्यं शङ्खचूडः प्रतापवान्
एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् । देवानामसुराणां च दानवानां च सन्ततम्
गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः । हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा
ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् । वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः
तदा ब्रह्मा सुरैः सार्धं जगाम शङ्करालयम् । सर्वेशं कथयामास विधाता चन्द्रशेखरम्
ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह । दुर्लभं परमं धाम जरामृत्युहरं परम्
सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो । ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान्
शोभितान्पीतवस्त्रैश्च रत्नभूषणभूषितान् । वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान्
शङ्खचक्रगदापद्मधरांश्चैव चतुर्भुजान् । सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान्
ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् । तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया
एवं षोडश द्वाराणि निरीक्ष्य कमलोद्भवः । देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम्
देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः । नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः
नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् । मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम्
अमूल्यरत्नखचितां रचितां स्वेच्छया हरेः । माणिक्यमालाजालाभां मुक्तापङ्क्तिविभूषिताम्
मण्डितां मण्डलाकारै रत्नदर्पणकोटिभिः । विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम्
पद्मरागेन्द्ररचितां रुचिरां मणिपङ्कजैः । सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः
पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः । इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम्
सद्रत्नपूर्णकुम्भानां समूहैश्च समन्विताम् । पारिजातप्रसूनानां मालाजालैर्विराजिताम्
कस्तूरीकुङ्कुमारक्तैः सुगन्धिचन्दनद्रुमैः । सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना
विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् । सहस्रयोजनायामां परिपूर्णां च किङ्करैः
ददर्श श्रीहरिं ब्रह्मा शङ्करश्च सुरैः सह । वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम्
अमूल्यरत्ननिर्माणचित्रसिंहासने स्थितम् । किरीटिनं कुण्डलिनं वनमालाविभूषितम्
चन्दनोक्षितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् । पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा
शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् । लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम्