यथादितिः कश्यपे च वसिष्ठेऽरुन्धती सखी । यथाहल्या गौतमे च देवहूतिश्च कर्दमे
यथा बृहस्पतौ तारा शतरूपा मनौ यथा । यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने
यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे । देवसेना यथा स्कन्दे धर्मे भूर्तिर्यथा सती
सौभाग्या सुप्रिया त्वं च शङ्खचूडे तथा भव । अनेन सार्धं सुचिरं सुन्दरेण च सुन्दरि
स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् । पश्चात्प्राप्यसि गोलोके श्रीकृष्णं पुनरेव च । चतुर्भुजं च वैकुण्ठे शङ्खचूडे मृते सति
शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् नारद उवाच विचित्रमिदमाख्यानं भवता समुदाहृतम् । श्रुतेन येन मे तृप्तिर्न कदापि हि जायते
ततः परं तु यज्जातं तत्त्वं वद महामते । श्रीनारायण उवाच इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः
गान्धर्वेण विवाहेन जगृहे तां च दानवः । स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह
स रेमे रामया सार्धं वासगेहे मनोरमे । मूर्च्छां सा प्राप तुलसी नवसङ्गमसङ्गता
निमग्ना निर्जले साध्वी सम्भोगसुखसागरे । चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम्
कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् । अङ्गप्रत्यङ्गसंश्लेषपूर्वकं स्त्रीमनोहरम्
तत्सर्वं रसशृङ्गारं चकार रसिकेश्वरः । अतीव रम्यदेशे च सर्वजन्तुविवर्जिते
पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना । पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते
गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् । भूषितो भूषणेनैव रत्नभूषणभूषिताम्
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः । जहार मानसं भर्तुर्लोलया लीलया सती
चेतनां रसिकायाश्च जहार रसभाववित् । वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा
स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् । तद्वक्षस्युरोजे च नखरेखां ददौ मुदा
सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् । राजा तदोष्ठपुटके ददौ रदनदंशनम्
तद्गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् । आलिङ्गनं चुम्बनं च जङ्घादिमर्दनं तथा
एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ । सुरते विरते तौ च समुत्थाय परस्परम्
सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् । चन्दनैः कुङ्कुमारक्तैः सा तस्य तिलकं ददौ
सर्वाङ्गे सुन्दरे रम्ये चकार चानुलेपनम् । सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी
पारिजातस्य कुसुमं जरारोगहरं परम् । अमूल्यरत्ननिर्माणमङ्गुलीयकमुत्तमम्
सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् । दासी तवाहमित्येवं समुच्चार्य पुनः पुनः
ननाम परया भक्त्या स्वामिनं गुणशालिनम् । सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः
निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् । स च तां च समाकृष्य चकार वक्षसि प्रियाम्
सस्मितं वाससाच्छन्नं ददर्श मुखपङ्कजम् । चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च
ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् । तदाहृतां रत्नमालां त्रिषु लोकेषु दुर्लभाम्
ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् । केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम्
अङ्गुलीयकरत्नानि रत्याश्च करभूषणम् । शङ्खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा