यः कन्यापालनं कृत्वा करोति यदि विक्रयम् । विक्रेता धनलोभेन कुम्भीपाकं स गच्छति
कन्यामूत्रं पुरीषं च तत्र भक्षति पातकी । कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश
तदन्ते व्याधिसंयुक्तः स लभेज्जन्म निश्चितम् । विक्रीणाति मांसभारं वहत्येव दिवानिशम्
इत्येवमुक्त्वा तुलसी विरराम तपोनिधे । ब्रह्मोवाच किं करोषि शङ्खचूड संवादमनया सह
गान्धर्वेण विवाहेन त्वं चास्या ग्रहणं कुरु । पुरुषेष्वसि रत्नं त्वं स्त्रीषु रत्नं त्वियं सती
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् । निर्विरोधसुखं राजन् को वा त्यजति दुर्लभम्
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः । किं परीक्षसि त्वं कान्तमीदृशं गुणिनं सति
देवानामसुराणां च दानवानां विमर्दकम् । यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका
यथा मयि च सावित्री भवानी च भवे यथा । यथा धरा वराहे च दक्षिणा च यथाध्वरे
द्यथात्रेरनसूया च दमयन्ती यथा नले । रोहिणी च यथा चन्द्रे यथा कामे रतिः सती
यथादितिः कश्यपे च वसिष्ठेऽरुन्धती सखी । यथाहल्या गौतमे च देवहूतिश्च कर्दमे
यथा बृहस्पतौ तारा शतरूपा मनौ यथा । यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने
यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे । देवसेना यथा स्कन्दे धर्मे भूर्तिर्यथा सती
सौभाग्या सुप्रिया त्वं च शङ्खचूडे तथा भव । अनेन सार्धं सुचिरं सुन्दरेण च सुन्दरि
स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् । पश्चात्प्राप्यसि गोलोके श्रीकृष्णं पुनरेव च । चतुर्भुजं च वैकुण्ठे शङ्खचूडे मृते सति
शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् नारद उवाच विचित्रमिदमाख्यानं भवता समुदाहृतम् । श्रुतेन येन मे तृप्तिर्न कदापि हि जायते
ततः परं तु यज्जातं तत्त्वं वद महामते । श्रीनारायण उवाच इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः
गान्धर्वेण विवाहेन जगृहे तां च दानवः । स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह
स रेमे रामया सार्धं वासगेहे मनोरमे । मूर्च्छां सा प्राप तुलसी नवसङ्गमसङ्गता
निमग्ना निर्जले साध्वी सम्भोगसुखसागरे । चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम्
कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् । अङ्गप्रत्यङ्गसंश्लेषपूर्वकं स्त्रीमनोहरम्
तत्सर्वं रसशृङ्गारं चकार रसिकेश्वरः । अतीव रम्यदेशे च सर्वजन्तुविवर्जिते
पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना । पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते
गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् । भूषितो भूषणेनैव रत्नभूषणभूषिताम्
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः । जहार मानसं भर्तुर्लोलया लीलया सती
चेतनां रसिकायाश्च जहार रसभाववित् । वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा
स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् । तद्वक्षस्युरोजे च नखरेखां ददौ मुदा
सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् । राजा तदोष्ठपुटके ददौ रदनदंशनम्
तद्गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् । आलिङ्गनं चुम्बनं च जङ्घादिमर्दनं तथा
एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ । सुरते विरते तौ च समुत्थाय परस्परम्