निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं नरम् । स्त्रीजितं मनसा माता पिता भ्राता च निन्दति
शुद्धो विप्रो दशाहेन जातके मृतके यथा । भूमिपो द्वादशाहेन वैश्यः पञ्चदशाहतः
शूद्रो मासेन वेदेषु मातृवद्धीनसङ्करः । अशुचिः स्त्रीजितः शुद्ध्येच्चितादहनकालतः
न गह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम् । न गह्णन्त्येव देवाश्च तस्य पुष्पजलादिकम्
किं वा ज्ञानेन तपसा जपहोमप्रपूजनैः । किं विद्यया च यशसा स्त्रीभिर्यस्य मनो हृतम्
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः । कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम्
वराय गुणहीनाय वृद्धायाज्ञानिने तथा । दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च
अत्यन्तकोपयुक्ताय वात्यन्तदुर्मुखाय च । पङ्गवे चाङ्गहीनाय चान्धाय बधिराय च
जडाय चैव मूकाय क्लीबतुल्याय पापिने । ब्रह्महत्यां लभेत्सोऽपि स्वकन्यां प्रददाति यः
शान्ताय गुणिने चैव यूने च विदुषेऽपि च । साधवे च सुतां दत्त्वा दशयज्ञफलं लभेत्
यः कन्यापालनं कृत्वा करोति यदि विक्रयम् । विक्रेता धनलोभेन कुम्भीपाकं स गच्छति
कन्यामूत्रं पुरीषं च तत्र भक्षति पातकी । कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश
तदन्ते व्याधिसंयुक्तः स लभेज्जन्म निश्चितम् । विक्रीणाति मांसभारं वहत्येव दिवानिशम्
इत्येवमुक्त्वा तुलसी विरराम तपोनिधे । ब्रह्मोवाच किं करोषि शङ्खचूड संवादमनया सह
गान्धर्वेण विवाहेन त्वं चास्या ग्रहणं कुरु । पुरुषेष्वसि रत्नं त्वं स्त्रीषु रत्नं त्वियं सती
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् । निर्विरोधसुखं राजन् को वा त्यजति दुर्लभम्
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः । किं परीक्षसि त्वं कान्तमीदृशं गुणिनं सति
देवानामसुराणां च दानवानां विमर्दकम् । यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका
यथा मयि च सावित्री भवानी च भवे यथा । यथा धरा वराहे च दक्षिणा च यथाध्वरे
द्यथात्रेरनसूया च दमयन्ती यथा नले । रोहिणी च यथा चन्द्रे यथा कामे रतिः सती
यथादितिः कश्यपे च वसिष्ठेऽरुन्धती सखी । यथाहल्या गौतमे च देवहूतिश्च कर्दमे
यथा बृहस्पतौ तारा शतरूपा मनौ यथा । यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने
यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे । देवसेना यथा स्कन्दे धर्मे भूर्तिर्यथा सती
सौभाग्या सुप्रिया त्वं च शङ्खचूडे तथा भव । अनेन सार्धं सुचिरं सुन्दरेण च सुन्दरि
स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् । पश्चात्प्राप्यसि गोलोके श्रीकृष्णं पुनरेव च । चतुर्भुजं च वैकुण्ठे शङ्खचूडे मृते सति
शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् नारद उवाच विचित्रमिदमाख्यानं भवता समुदाहृतम् । श्रुतेन येन मे तृप्तिर्न कदापि हि जायते
ततः परं तु यज्जातं तत्त्वं वद महामते । श्रीनारायण उवाच इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः
गान्धर्वेण विवाहेन जगृहे तां च दानवः । स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह
स रेमे रामया सार्धं वासगेहे मनोरमे । मूर्च्छां सा प्राप तुलसी नवसङ्गमसङ्गता
निमग्ना निर्जले साध्वी सम्भोगसुखसागरे । चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम्