अद्रोहः सर्वभूतेषु कर्तव्यः सर्वदा बुधैः । स कथं राजशार्दूल गृहस्थस्य भवेत्तथा
वित्तैषणा न ते शान्ता तथा राज्यसुखैषणा । जयैषणा च सङ्ग्रामे जीवन्मुक्तः कथं भवेः
चौरेषु चौरबुद्धिस्तु साधुबुद्धिस्तु तापसे । स्वपरत्वं तवाप्यस्ति विदेहस्त्वं कथं नृप
कटुतीक्ष्णुकषायाम्लरसान्वेत्सि शुभाशुभान् । शुभेषु रमते चित्तं नाशुभेषु तथा नृप
जाग्रत्स्वप्नसुषुप्तिश्च तव राजन् भवन्ति हि । अवस्थास्तु यथाकालं तुरीया तु कथं नृप
पदात्यश्वरथेभाश्च सर्वे वै वशगा मम । स्वाम्यहं चैव सर्वेषां मन्यसे त्वं न मन्यसे
मिष्टमत्सि सदा राजन्मुदितो विमनास्तथा । मालायां च तथा सर्पे समदृक् क्व नृपोत्तम
विमुक्तस्तु भवेद्राजन् समलोष्टाश्मकाञ्चनः । एकात्मबुद्धिः सर्वत्र हितकृत्सर्वजन्तुषु
न मेऽद्य रमते चित्तं गृहदारादिषु क्वचित् । एकाकी निःस्पृहोऽत्यर्थं चरेयमिति मे मतिः
निःसङ्गो निर्ममः शान्तः पत्रमूलफलाशनः । मृगवद्विचरिष्यामि निर्द्वन्द्वो निष्परिग्रहः
किं मे गृहेण वित्तेन भार्यया च सुरूपया । विरागमनसः कामं गुणातीतस्य पार्थिव
चिन्त्यसे विविधाकारं नानारागसमाकुलम् । दम्भोऽयं किल ते भाति विमुक्तोऽस्मीति भाषसे
कदाचिच्छत्रुजा चिन्ता धनजा च कदाचन । कदाचित्सैन्यजा चिन्ता निश्चिन्तोऽसि कदा नृप
वैखानसा ये मुनयो मिताहारा जितव्रताः । तेऽपि मुह्यन्ति संसारे जानन्तोऽपि ह्यसत्यताम्
तव वंशसमुत्थानां विदेहा इति भूपते । कुटिलं नाम जानीहि नान्यथेति कदाचन
विद्याधरो यथा मूर्खो जन्मान्धस्तु दिवाकरः । लक्ष्मीधरो दरिद्रश्च नाम तेषां निरर्थकम्
तव वंशोद्भवा ये ये श्रुताः पूर्वे मया नृपाः । विदेहा इति विख्याता नामतः कर्मतो न ते
निमिनामाभवद्राजा पूर्वं तव कुले नृप । यज्ञार्थं स तु राजर्षिर्वसिष्ठं स्वगुरुं मुनिम्
निमन्त्रयामास तदा तमुवाच नृपं मुनिः । निमन्त्रितोऽस्मि यज्ञार्थं देवेन्द्रेणाधुना किल
कृत्वा तस्य मखं पूर्णं करिष्यामि तवापि वै । तावत्कुरुष्व राजेन्द्र सम्भारं तु शनैः शनैः
इत्युक्त्या निर्ययौ सोऽथ महेन्द्रयजने मुनिः । निमिरन्यं गुरुं कृत्वा चकार मखमुत्तमम्
तच्छ्रुत्वा कुपितोऽत्यर्थं वसिष्ठो नृपतिं पुनः । शशाप च पतत्वद्य देहस्ते गुरुलोपक
राजापि तं शशापाथ तवापि च पतत्वयम् । अन्योन्यशापात्पतितौ तावेव च मया श्रुतम्
विदेहेन च राजेन्द्र कथं शप्तो गुरुः स्वयम् । विनोद इव मे चित्ते विभाति नृपसत्तम
जनक उवाच सत्यमुक्तं त्वया नात्र मिथ्या किञ्चिदिदं मतम् । तथापि शृणु विप्रेन्द्र गुरुर्मम सुपूजितः
पितुः सङ्गं परित्यज्य त्वं वनं गन्तुमिच्छसि । मृगैः सह सुसम्बन्धो भविता ते न संशयः
महाभूतानि सर्वत्र निःसङ्गः क्व भविष्यसि । आहारार्थं सदा चिन्ता निश्चिन्तः स्याः कथं मुने
दण्डाजिनकृता चिन्ता यथा तव वनेऽपि च । तथैव राज्यचिन्ता मे चिन्तयानस्य वा न वा
विकल्पोपहतस्त्वं वै दूरदेशमुपागतः । न मे विकल्पसन्देहो निर्विकल्पोऽस्मि सर्वथा
सुखं स्वपिमि विप्राहं सुखं भुञ्जामि सर्वथा । न बद्धोऽस्मीति बुद्ध्याहं सर्वदैव सुखी मुने