हरेर्भक्तिव्यवहिता सर्वमायाकरण्डिका । संसारकारागारे च शश्वन्निगडरूपिणी
इन्द्रजालस्वरूपा च मिथ्या च स्वप्नरूपिणी । बिभ्रती बाह्यसौन्दर्यमधोऽङ्गमतिकुत्सितम्
नानाविण्मूत्रपूयानामाधारं मलसंयुतम् । दुर्गन्धिदोषसंयुक्तं रक्तारक्तमसंस्कृतम्
मायारूपा मायिनां च विधिना निर्मिता पुरा । विषरूपा मुमुक्षूणामदृश्याप्यभिवाञ्छताम्
इत्युक्त्वा तुलसी तं तु विरराम च नारद । सस्मितः शङ्खचूडश्च प्रवक्तुमुपचक्रमे
शङ्खचूड उवाच त्वया यत्कथितं देवि न च सर्वमलीककम् । किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय
निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम् । कृत्वा रूपं वास्तवं च प्रशस्यं चाप्रशंसितम्
लक्ष्मीः सरस्वती दुर्गा सावित्री राधिकादिका । सृष्टिसूत्रस्वरूपा च आद्या सृष्टिर्विनिर्मिता
एतासामंशरूपं च स्त्रीरूपं वास्तवं स्मृतम् । तत्प्रशस्यं यशोरूपं सर्वमङ्गलकारकम्
शतरूपा देवहूती स्वधा स्वाहा च दक्षिणा । छायावती रोहिणी च वरुणानी शची तथा
कुबेरस्य च पत्नी याप्यदितिश्च दितिस्तथा । लोपामुद्रानसूया च कोटभी तुलसी तथा
अहल्यारुन्धती मेना तारा मन्दोदरी तथा । दमयन्ती वेदवती गङ्गा च मनसा तथा
पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा । षष्ठी मङ्गलचण्डी च मूर्तिश्च धर्मकामिनी
स्वस्तिः श्रद्धा च शान्तिश्च कान्तिः क्षान्तिस्तथा परा । निद्रा तन्द्रा क्षुत्पिपासा सन्ध्या रात्रिदिनानि च
सम्पत्तिर्धृतिकीर्ती च क्रिया शोभा प्रभा शिवा । यत्स्त्रीरूपं च सम्भूतमुत्तमं तु युगे युगे
कलाकलांशरूपं च स्वर्वेश्यादिकमेव च । तदप्रशस्यं विश्वेषु पुंश्चलीरूपमेव च
सत्त्वप्रधानं यद्रूपं तद्युक्तं च प्रभावतः । तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम्
तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः । रजोरूपं तमोरूपं कलासु विविधं स्मृतम्
मध्यमा रजसश्चांशास्तास्तु भोगेषु लोलुपाः । सुखसम्भोगवश्याश्च स्वकार्ये निरताः सदा
कपटा मोहकारिण्यो धर्मार्थविमुखाः सदा । रजोरूपस्य साध्वीत्वमतो नैवोपजायते
इदं मध्यमरूपं च प्रवदन्ति मनीषिणः । तमोरूपं दुर्निवार्यमधमं तद्विदुर्बुधाः
न पृच्छति कुले जातः पण्डितश्च परस्त्रियम् । निर्जने निर्जले वापि रहस्यपि परस्त्रियम्
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना । गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने
अहमेव शङ्खचूडो देवविद्रावकारकः । दनुवंश्यो विशेषेण सुदामाहं हरेः पुरा
अहमष्टसु गोपेषु गोपोऽपि पार्षदेषु च । अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः
जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः । जातिस्मरा त्वं तुलसी सम्भुक्ता हरिणा पुरा
त्वमेव राधिकाकोपाज्जातासि भारते भुवि । त्वां सम्भोक्तुमुत्सुकोऽहं नालं राधाभयात्ततः
इत्येवमुक्त्वा स पुमान्विरराम महामुने । सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे
तुलस्युवाच एवंविधो बुधो नित्यं विश्वेषु च प्रशंसितः । कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः
त्वयाहमधुना सत्यं विचारेण पराजिता । स निन्दितश्चाप्यशुचिर्यः पुमांश्च स्त्रिया जितः