श्रुतौ पुराणे यासां च चरित्रमतिदूषितम् । तासु को विश्वसेत्प्राज्ञः प्रज्ञावांश्च दुराशयः
तासां को वा रिपुर्मित्रं प्रार्थयन्ति नवं नवम् । दृष्ट्वा सुवेषं पुरुषमिच्छन्ति हृदये सदा
बाह्ये स्वार्थं सतीत्वं च ज्ञापयन्ती प्रयत्नतः । शश्वत्कामा च रामा च कामाधारा मनोहरा
बाह्ये छलात्खेदयन्ती स्वान्तर्मैथुनमानसा । कान्तं हसन्ती रहसि बाह्येऽतीव सुलज्जिता
मानिनी मैथुनाभावे कोपना कलहाङ्कुरा । सुप्रीता भूरिसम्भोगात्स्वल्पमैथुनदुःखिता
सुमिष्टान्नाच्छीततोयादाकाङ्क्षन्ती च मानसे । सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा
सुतात्परमभिस्नेहं कुर्वती रसिकोपरि । प्राणाधिकं प्रियतमं सम्भोगकुशलं प्रियम्
पश्यन्ती रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् । कलहं कुर्वती शश्वत्तेन सार्धं सुकोपना
वाचया भक्षयन्ती तं सर्प आखुमिवोल्बणम् । दुःसाहसस्वरूपा च सर्वदोषाश्रया सदा
ब्रह्मविष्णुशिवादीनां दुःसाध्या मोहरूपिणी । तपोमार्गार्गला शश्वन्मोक्षद्वारकपाटिका
हरेर्भक्तिव्यवहिता सर्वमायाकरण्डिका । संसारकारागारे च शश्वन्निगडरूपिणी
इन्द्रजालस्वरूपा च मिथ्या च स्वप्नरूपिणी । बिभ्रती बाह्यसौन्दर्यमधोऽङ्गमतिकुत्सितम्
नानाविण्मूत्रपूयानामाधारं मलसंयुतम् । दुर्गन्धिदोषसंयुक्तं रक्तारक्तमसंस्कृतम्
मायारूपा मायिनां च विधिना निर्मिता पुरा । विषरूपा मुमुक्षूणामदृश्याप्यभिवाञ्छताम्
इत्युक्त्वा तुलसी तं तु विरराम च नारद । सस्मितः शङ्खचूडश्च प्रवक्तुमुपचक्रमे
शङ्खचूड उवाच त्वया यत्कथितं देवि न च सर्वमलीककम् । किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय
निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम् । कृत्वा रूपं वास्तवं च प्रशस्यं चाप्रशंसितम्
लक्ष्मीः सरस्वती दुर्गा सावित्री राधिकादिका । सृष्टिसूत्रस्वरूपा च आद्या सृष्टिर्विनिर्मिता
एतासामंशरूपं च स्त्रीरूपं वास्तवं स्मृतम् । तत्प्रशस्यं यशोरूपं सर्वमङ्गलकारकम्
शतरूपा देवहूती स्वधा स्वाहा च दक्षिणा । छायावती रोहिणी च वरुणानी शची तथा
कुबेरस्य च पत्नी याप्यदितिश्च दितिस्तथा । लोपामुद्रानसूया च कोटभी तुलसी तथा
अहल्यारुन्धती मेना तारा मन्दोदरी तथा । दमयन्ती वेदवती गङ्गा च मनसा तथा
पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा । षष्ठी मङ्गलचण्डी च मूर्तिश्च धर्मकामिनी
स्वस्तिः श्रद्धा च शान्तिश्च कान्तिः क्षान्तिस्तथा परा । निद्रा तन्द्रा क्षुत्पिपासा सन्ध्या रात्रिदिनानि च
सम्पत्तिर्धृतिकीर्ती च क्रिया शोभा प्रभा शिवा । यत्स्त्रीरूपं च सम्भूतमुत्तमं तु युगे युगे
कलाकलांशरूपं च स्वर्वेश्यादिकमेव च । तदप्रशस्यं विश्वेषु पुंश्चलीरूपमेव च
सत्त्वप्रधानं यद्रूपं तद्युक्तं च प्रभावतः । तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम्
तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः । रजोरूपं तमोरूपं कलासु विविधं स्मृतम्
मध्यमा रजसश्चांशास्तास्तु भोगेषु लोलुपाः । सुखसम्भोगवश्याश्च स्वकार्ये निरताः सदा
कपटा मोहकारिण्यो धर्मार्थविमुखाः सदा । रजोरूपस्य साध्वीत्वमतो नैवोपजायते