आज्ञया ब्रह्मणः सोऽपि बदरीं च समाययौ । आगच्छन्तं शङ्खचूडं ददर्श तुलसी मुने
नवयौवनसम्पन्नं कामदेवसमप्रभम् । श्वेतचम्पकवर्णाभं रत्नभूषणभूषितम्
शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् । रत्नसारविनिर्माणविमानस्थं मनोहरम्
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् । पारिजातप्रसूनानां मालावन्तं च सुस्मितम्
कस्तूरीकुङ्कुमायुक्तं सुगन्धिचन्दनान्वितम् । सा दृष्ट्वा सन्निधावेनं मुखमाच्छाद्य वाससा
सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः । बभूवातिनम्रमुखी नवसङ्गमलज्जिता
शरदिन्दुविनिन्द्यैकस्वमुखेन्दुविराजिता । अमूल्यरत्ननिर्माणयावकावलिसंयुता
मणीन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता । दधती कबरीभारं मालतीमाल्यसंयुतम्
अमूल्यरत्ननिर्माणमकराकृतिकुण्डला । चित्रकुण्डलयुग्मेन गण्डस्थलविराजिता
रत्नेन्द्रसारहारेण स्तनमध्यस्थलोज्ज्वला । रत्नकङ्कणकेयूरशङ्खभूषणभूषिता
रत्नाङ्गुलीयकैर्दिव्यैरङ्गुल्यावलिराजिता । दृष्ट्वा तां ललितां रम्यां सुशीलां सुन्दरीं सतीम्
उवास तत्समीपे तु मधुरं तामुवाच सः । शङ्खचूड उवाच का त्वं कस्य च कन्या च धन्या मान्या च योषिताम्
का त्वं मानिनि कल्याणि सर्वकल्याणदायिनि । मौनीभूते किङ्करे मां सम्भाषां कुरु सुन्दरि
इत्येवं वचनं श्रुत्वा सकामा वामलोचना । सस्मिता नम्रवदना सकामं तमुवाच सा
तुलस्युवाच धर्मध्वजसुताहं च तपस्यायां तपोवने । तपस्विन्यहं तिष्ठामि कस्त्वं गच्छ यथासुखम्
कामिनीं कुलजातां च रहस्येकाकिनीं सतीम् । न पृच्छति कुले जात इत्येवं मे श्रुतौ श्रुतम्
लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः । येनाश्रुतः श्रुतेरर्थः स कामीच्छति कामिनीम्
आपातमधुरां मत्तामन्तकां पुरुषस्य ताम् । विषकुम्भाकाररूपाममृतास्यां च सन्ततम्
हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् । स्वकार्यपरिनिष्पत्त्यै तत्परा सततं च ताम्
कार्यार्थे स्वामिवशगामन्यथैवावशां सदा । स्वान्तर्मलिनरूपां च प्रसन्नवदनेक्षणाम्
श्रुतौ पुराणे यासां च चरित्रमतिदूषितम् । तासु को विश्वसेत्प्राज्ञः प्रज्ञावांश्च दुराशयः
तासां को वा रिपुर्मित्रं प्रार्थयन्ति नवं नवम् । दृष्ट्वा सुवेषं पुरुषमिच्छन्ति हृदये सदा
बाह्ये स्वार्थं सतीत्वं च ज्ञापयन्ती प्रयत्नतः । शश्वत्कामा च रामा च कामाधारा मनोहरा
बाह्ये छलात्खेदयन्ती स्वान्तर्मैथुनमानसा । कान्तं हसन्ती रहसि बाह्येऽतीव सुलज्जिता
मानिनी मैथुनाभावे कोपना कलहाङ्कुरा । सुप्रीता भूरिसम्भोगात्स्वल्पमैथुनदुःखिता
सुमिष्टान्नाच्छीततोयादाकाङ्क्षन्ती च मानसे । सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा
सुतात्परमभिस्नेहं कुर्वती रसिकोपरि । प्राणाधिकं प्रियतमं सम्भोगकुशलं प्रियम्
पश्यन्ती रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् । कलहं कुर्वती शश्वत्तेन सार्धं सुकोपना
वाचया भक्षयन्ती तं सर्प आखुमिवोल्बणम् । दुःसाहसस्वरूपा च सर्वदोषाश्रया सदा
ब्रह्मविष्णुशिवादीनां दुःसाध्या मोहरूपिणी । तपोमार्गार्गला शश्वन्मोक्षद्वारकपाटिका