भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी । प्रधाना सर्वपुष्पेषु विष्णुप्राणाधिका भवेः
त्वया विना च सर्वेषां पूजा च विफला भवेत् । वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च
त्वत्पत्रैर्गोपिगोपाश्च पूजयिष्यन्ति माधवम् । वृक्षाधिदेवीरूपेण सार्धं कृष्णेन सन्ततम्
विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च । इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा
प्रणनाम च ब्रह्माणं तं च किञ्चिदुवाच सा । तुलस्युवाच यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे
सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे । अतृप्ताहं च गोविन्दे दैवाच्छृङ्गारभङ्गतः
गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम् । त्वत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम्
ध्रुवमेव लभिष्यामि राधाभीतिं प्रमोचय । ब्रह्यदेव उवाच गृहाण राधिकामन्त्रं ददामि षोडशाक्षरम्
तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि । शृङ्गारं युवयोर्गोप्यं न ज्ञास्यति च राधिका
राधासमा त्वं सुभगे गोविन्दस्य भविष्यसि । इत्येवमुक्त्वा दत्त्वा च देव्या वै षोडशाक्षरम्
मन्त्रं चैव जगद्धाता स्तोत्रं च कवचं परम् । सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम्
परां शुभाशिषं चैव पूजां चैव चकार सा । बभूव सिद्धा सा देवी तत्प्रसादाद्रमा यथा
सिद्धं मन्त्रेण तुलसी वरं प्राप यथोदितम् । बुभुजे च महाभोगं यद्विश्वेषु च दुर्लभम्
प्रसन्नमनसा देवी तत्याज तपसः क्लमम् । सिद्धे फले नराणां च दुःखं च सुखमुत्तमम्
भुक्त्या पीत्वा च सन्तुष्टा शयनं च चकार सा । तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते
शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् नारायण उवाच तुलसी परितुष्टा च सुष्वाप हृष्टमानसा । नवयौवनसम्पन्ना वृषध्वजवराङ्गना
चिक्षेप पञ्चबाणश्च पञ्चबाणांश्च तां प्रति । पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता
पुलकाङ्कितसर्वाङ्गी कम्पितारक्तलोचना । क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह
क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् । क्षणं च दहनं प्राप क्षणं प्राप प्रसन्नताम्
क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् । उत्तिष्ठन्ती क्षणं तल्पाद् गच्छन्ती निकटे क्षणम्
भ्रमन्ती क्षणमुद्वेगान्निवसन्ती क्षणं पुनः । क्षणमेव समुद्वेगात्सुष्वाप पुनरेव सा
पुष्पचन्दनतल्पं च तद् बभूवातिकण्टकम् । विषहारि सुखं दिव्यं सुन्दरं च फलं जलम्
निलयं च बिलाकारं सूक्ष्मवस्त्रं हुताशनः । सिन्दूरपत्रकं चैव व्रणतुल्यं च दुःखदम्
क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती । सुन्दरं च युवानं च सस्मितं रसिकेश्वरम्
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् । आगच्छन्तं माल्यवन्तं पिबन्तं तन्मुखाम्बुजम्
कथयन्तं रतिकथां ब्रुवन्तं मधुरं मुहुः । सम्भुक्तवन्तं तल्पे च समाश्लिष्यन्तमीप्सितम्
पुनरेव तु गच्छन्तमागच्छन्तं च सन्निधौ । यान्तं क्व यासि प्राणेश तिष्ठत्येवमुवाच सा
पुनश्च चेतनां प्राप्य विललाप पुनः पुनः । एवं सा यौवनं प्राप्य तस्थौ तत्रैव नारद
शङ्खचूडो महायोगी जैगीषव्यान्मनोहरम् । कृष्णमन्त्रं च सम्प्राप्य कृत्वा सिद्धं तु पुष्करे
कवचं च गले बद्ध्वा सर्वमङ्गलमङ्गलम् । ब्रह्मणश्च वरं प्राप्य यत्ते मनसि वाञ्छितम्