रासेश्वरी समागत्य ददर्श रासमण्डले । गोविन्दं भर्त्सयामास मां शशाप रुषान्विता
याहि त्वं मानवीं योनिमित्येवं च शशाप ह । मामुवाच स गोविन्दो मदंशं च चतुर्भुजम्
लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् । इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानं चकार सः
देव्या भिया तनुं त्यक्त्वा प्राप्तं जन्म गुरो भुवि । अहं नारायणं कान्तं शान्तं सुन्दरविग्रहम्
साम्प्रतं तं पतिं लब्धुं वरये त्वं च देहि मे । ब्रह्मदेव उवाच सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्भवः
तदंशश्चातितेजस्वी लेभे जन्म च भारते । साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः
शङ्खचूडेति विख्यातस्त्रैलोक्ये न च तत्समः । गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः
विलम्भितुं न शशाक राधिकायाः प्रभावतः । स च जातिस्मरस्तस्मात्सदामाभूच्च सागरे
जातिस्मरा त्वमपि सा सर्वं जानासि सुन्दरि । अधुना तस्य पत्नी त्वं सम्भविष्यसि शोभने
पश्चान्नारायणं शान्तं कान्तमेव वरिष्यसि । शापान्नारायणस्यैव कलया दैवयोगतः
भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी । प्रधाना सर्वपुष्पेषु विष्णुप्राणाधिका भवेः
त्वया विना च सर्वेषां पूजा च विफला भवेत् । वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च
त्वत्पत्रैर्गोपिगोपाश्च पूजयिष्यन्ति माधवम् । वृक्षाधिदेवीरूपेण सार्धं कृष्णेन सन्ततम्
विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च । इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा
प्रणनाम च ब्रह्माणं तं च किञ्चिदुवाच सा । तुलस्युवाच यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे
सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे । अतृप्ताहं च गोविन्दे दैवाच्छृङ्गारभङ्गतः
गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम् । त्वत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम्
ध्रुवमेव लभिष्यामि राधाभीतिं प्रमोचय । ब्रह्यदेव उवाच गृहाण राधिकामन्त्रं ददामि षोडशाक्षरम्
तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि । शृङ्गारं युवयोर्गोप्यं न ज्ञास्यति च राधिका
राधासमा त्वं सुभगे गोविन्दस्य भविष्यसि । इत्येवमुक्त्वा दत्त्वा च देव्या वै षोडशाक्षरम्
मन्त्रं चैव जगद्धाता स्तोत्रं च कवचं परम् । सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम्
परां शुभाशिषं चैव पूजां चैव चकार सा । बभूव सिद्धा सा देवी तत्प्रसादाद्रमा यथा
सिद्धं मन्त्रेण तुलसी वरं प्राप यथोदितम् । बुभुजे च महाभोगं यद्विश्वेषु च दुर्लभम्
प्रसन्नमनसा देवी तत्याज तपसः क्लमम् । सिद्धे फले नराणां च दुःखं च सुखमुत्तमम्
भुक्त्या पीत्वा च सन्तुष्टा शयनं च चकार सा । तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते
शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् नारायण उवाच तुलसी परितुष्टा च सुष्वाप हृष्टमानसा । नवयौवनसम्पन्ना वृषध्वजवराङ्गना
चिक्षेप पञ्चबाणश्च पञ्चबाणांश्च तां प्रति । पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता
पुलकाङ्कितसर्वाङ्गी कम्पितारक्तलोचना । क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह
क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् । क्षणं च दहनं प्राप क्षणं प्राप प्रसन्नताम्
क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् । उत्तिष्ठन्ती क्षणं तल्पाद् गच्छन्ती निकटे क्षणम्