शिवस्तत्प्रार्थनां श्रुत्वा प्रहस्य रसिकेश्वरः । प्रिये तव प्रियाः पञ्च भविष्यन्ति वरं ददौ
तेन सा पाण्डवानां च बभूव कामिनी प्रिया । इति ते कथितं सर्वं प्रस्तावं वास्तवं शृणु
अथ सम्प्राप्य लङ्कायां सीतां रामो मनोहराम् । विभीषणाय तां लङ्कां दत्त्वायोध्यां ययौ पुनः
एकादशसहस्राब्दं कृत्वा राज्यं च भारते । जगाम सर्वैर्लोकैश्च सार्धं वैकुण्ठमेव च
कमलांशा वेदवती कमलायां विवेश सा । कथितं पुण्यमाख्यानं पुण्यदं पापनाशनम्
सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च । सन्ति यस्याश्च जिह्वाग्रे सा च वेदवती श्रुता
धर्मध्वजसुताख्यानं निबोध कथयामि ते
धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् श्रीनारायण उवाच धर्मध्वजस्य पत्नी माधवीति च विश्रुता । नृपेण सार्धं सारामे रेमे च गन्धमादने
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् । चन्दनालिप्तसर्वाङ्गीं पुष्पचन्दनवायुना
स्त्रीरत्नमतिचार्वङ्गी रत्नभूषणभूषिता । कामुकी रसिका सृष्टा रसिकेन च संयुता
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः । गतं देववर्षशतं न ज्ञातं च दिवानिशम्
ततो राजा मतिं प्राप्य सुरताद्विरराम च । कामुकी सुन्दरी किञ्चिन्न च तृप्तिं जगाम सा
दधार गर्भं सा सद्यो दैवादब्दशतं सती । श्रीगर्भा श्रीयुता सा च सम्बभूव दिने दिने
शुभे क्षणे शुभदिने शुभयोगे च संयुते । शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते
कार्तिकीपूर्णिमायां तु सितवारे च पाद्मज । सुषाव सा च पद्मांशां पद्मिनीं तां मनोहराम्
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् । पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम्
हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् । तदधस्त्रिवलीयुक्तां नितम्बयुगवर्तुलाम्
शीते सुखोष्णसर्वाङ्गीं ग्रीष्मे च सुखशीतलाम् । श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम्
पीतचम्पकवर्णाभां सुन्दरीष्वेव सुन्दरीम् । नरा नार्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः
तेन नाम्ना च तुलसीं तां वदन्ति मनीषिणः । सा च भूयिष्ठमानेन योग्या स्त्री प्रकृतिर्यथा
सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् । तत्र देवाब्दलक्षं च चकार परमं तपः
मनसा नारायणः स्वामी भवितेति च निश्चिता । ग्रीष्मे पञ्चतपाः शीते तोयवस्त्रा च प्रावृषि
आसनस्था वृष्टिधाराः सहन्तीति दिवानिशम् । विंशत्सहस्रवर्षं च फलतोयाशना च सा
त्रिंशत्सहस्रवर्षं च पत्राहारा तपस्विनी । चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी
ततो दशसहस्राब्दं निराहारा बभूव सा । निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः
समाययौ वरं दातुं परं बदरिकाश्रमम् । चतुर्मुखं च सा दृष्ट्वा ननाम हंसवाहनम्
तामुवाच जगत्कर्ता विधाता जगतामपि । ब्रह्मोवाच वरं वृणीष्व तुलसि यत्ते मनसि वाच्छितम्
हरिभक्तिं हरेर्दास्यमजरामरतामपि । तुलस्युवाच शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम्
सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् । अहं तु तुलसी गोपी गोलोकेऽहं स्थिता पुरा
कृष्णप्रिया किंकरी च तदंशा तत्सखी प्रिया । गोविन्दरतिसम्भुक्तामतृप्तां मां च मूर्च्छिताम्