तस्थौ समुद्रनिकटे सीतया लक्ष्मणेन च । ददर्श तत्र वह्निं च विप्ररूपधरं हरिः
रामं च दुःखितं दृष्ट्वा स च दुःखी बभूव ह । उवाच किञ्चित्सत्येष्टं सत्यं सत्यपरायणः
द्विज उवाच भगवच्छ्रूयतां राम कालोऽयं यदुपस्थितः । सीताहरणकालोऽयं तवैव समुपस्थितः
दैवं च दुर्निवार्यं च न च दैवात्परो बली । जगत्प्रसूं मयि न्यस्य छायां रक्षान्तिकेऽधुना
दास्यामि सीतां तुभ्यं च परीक्षासमये पुनः । देवैः प्रस्थापितोऽहं च न च विप्रो हुताशनः
रामस्तद्वचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् । स्वीकारं वचसश्चक्रे हृदयेन विदूयता
वह्निर्योगेन सीताया मायासीतां चकार ह । तत्तुल्यगुणसर्वाङ्गां ददौ रामाय नारद
सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषिध्य च । लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा
एतस्मिन्नन्तरे रामो ददर्श कानकं मृगम् । सीता तं प्रेरयामास तदर्थे यत्नपूर्वकम्
संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने । स्वयं जगाम तूर्णं तं विव्याध सायकेन च
लक्ष्मणेति च शब्दं स कृत्वा च मायया मृगः । प्राणांस्तत्याज सहसा पुरो दृष्ट्वा हरिं स्मरन्
मृगदेहं परित्यज्य दिव्यरूपं विधाय च । रत्ननिर्माणयानेन वैकुण्ठं स जगाम ह
वैकुण्ठलोकद्वार्यासीत्किङ्करो द्वारपालयोः । पुनर्जगाम तद्द्वारमादेशाद् द्वारपालयोः
अथ शब्दं च सा श्रुत्वा लक्ष्मणेति च विक्लवम् । तं हि सा प्रेरयामास लक्ष्मणं रामसन्निधौ
गते च लक्ष्मणे रामं रावणो दुर्निवारणः । सीतां गृहीत्वा प्रययौ लङ्कामेव स्वलीलया
विषसाद च रामश्च वने दृष्ट्वा च लक्ष्मणम् । तूर्णं च स्वाश्रमं गत्वा सीतां नैव ददर्श सः
मूर्च्छां सम्प्राप सुचिरं विललाप भृशं पुनः । पुनः पुनश्च बभ्राम तदन्वेषणपूर्वकम्
कालेन प्राप्य तद्वार्तां गोदावरीनदीतटे । सहायान्वानरात्कृत्वा बबन्ध सागरं हरिः
लङ्कां गत्वा रघुश्रेष्ठो जघान सायकेन च । कालेन प्राप्य तं हत्वा रावणं बान्धवैः सह
तां च वह्निपरीक्षां च कारयामास सत्वरम् । हुताशस्तत्र काले तु वास्तवीं जानकीं ददौ
उवाच छाया वह्निं च रामं च विनयान्विता । करिष्यामीति किमहं तदुपायं वदस्व मे
श्रीरामाग्नी ऊचतुः त्वं गच्छ तपसे देवि पुष्करं च सुपुण्यदम् । कृत्वा तपस्या तत्रैव स्वर्गलक्ष्मीर्भविष्यसि
सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः । दिव्यं त्रिलक्षवर्षं च स्वर्गलक्ष्मीर्बभूव ह
सा च कालेन तपसा यज्ञकुण्डसमुद्भवा । कामिनी पाण्डवानां च द्रौपदी द्रुपदात्मजा
कृते युगे वेदवती कुशध्वजसुता शुभा । त्रेतायां रामपत्नी च सीतेति जनकात्मजा
तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा । त्रिहायणी च सा प्रोक्ता विद्यमाना युगत्रये
नारद उवाच प्रियाः पञ्च कथं तस्या बभूवुर्मुनिपुङ्गव । इति मच्चित्तसंदेहं भञ्ज संदेहभञ्जन
श्रीनारायण उवाच लङ्कायां वास्तवी सीता रामं सम्प्राप नारद । रूपयौवनसम्पन्ना छाया च बहुचिन्तया
रामाग्न्योराज्ञया तप्तुमुपास्ते शङ्करं परम् । कामातुरा पतिव्यग्रा प्रार्थयन्ती पुनः पुनः
पतिं देहि पतिं देहि पतिं देहि त्रिलोचन । पतिं देहि पतिं देहि पञ्चवारं चकार सा