राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातपसा रतौ । तयोश्च भार्ययोर्लक्ष्मीः कलया च भविष्यति
सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः । मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत
इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरंगतः । देवा जग्मुः सम्प्रहृष्टाः स्वाश्रमं परया मुदा । शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ
महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् श्रीनारायण उवाच लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने । वरमिष्टं च प्रत्येकं सम्प्रापतुरभीप्सितम्
महालक्ष्मीवरेणैव तौ पृथ्वीशौ बभूवतुः । पुण्यवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ
कुशध्वजस्य पत्नी च देवी मालावती सती । सा सुषाव च कालेन कमलांशां सुतां सतीम्
सा च भूयिष्ठकालेन ज्ञानयुक्ता बभूव ह । कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहात्
वेदध्वनिं सा चकार जातमात्रेण कन्यका । तस्मात्तां च वेदवतीं प्रवदन्ति मनीषिणः
जातमात्रेण सुस्नाता जगाम तपसे वनम् । सर्वैर्निषिद्धा यत्नेन नारायणपरायणा
एकमन्वन्तरं चैव पुष्करे च तपस्विनी । अत्युग्रां च तपस्यां च लीलया हि चकार सा
तथापि पुष्टा न क्लिष्टा नवयौवनसंयुता । सुश्राव सा च सहसा सुवाचमशरीरिणीम्
जन्मान्तरे च ते भर्ता भविष्यति हरिः स्वयम् । ब्रह्मादिभिर्दुराराध्यं पतिं लप्स्यसि सुन्दरि
इति श्रुत्वा च सा हृष्टा चकार ह पुनस्तपः । अतीव निर्जनस्थाने पर्वते गन्धमादने
तत्रैव सुचिरं तप्त्वा विश्वस्य समुवास सा । ददर्श पुरतस्तत्र रावणं दुर्निवारणम्
दृष्ट्वा सातिथिभक्त्या च पाद्यं तस्मै ददौ किल । सुस्वादुभूतं च फलं जलं चापि सुशीतलम्
तच्च भुक्त्वा स पापिष्ठश्चोवास तत्समीपतः । चकार प्रश्नमिति तां का त्वं कल्याणि वर्तसे
तां दृष्ट्वा स वरारोहां पीनश्रोणिपयोधराम् । शरत्पद्मोत्सवास्यां च सस्मितां सुदतीं सतीम्
मूर्च्छामवाप कृपणः कामबाणप्रपीडितः । स करेण समाकृष्य शृङ्गारं कर्तुमुद्यतः
सती चुकोप दृष्ट्वा तं स्तम्भितं च चकार ह । स जडो हस्तपादैश्च किञ्चिद्वक्तुं न च क्षमः
तुष्टाव मनसा देवीं प्रययौ पद्मलोचनाम् । सा तुष्टा तस्य स्तवनं सुकृतं च चकार ह
सा शशाप मदर्थे त्वं विनंक्ष्यसि सबान्धवः । स्पृष्टाहं च त्वया कामाद् बलं चाप्यवलोकय
इत्युक्त्वा सा च योगेन देहत्यागं चकार ह । गङ्गायां तां च संन्यस्य स्वगृहं रावणो ययौ
अहो किमद्भुतं दृष्टं किं कृतं वानयाधुना । इति सञ्चिन्त्य सञ्चिन्त्य विललाप पुनः पुनः
सा च कालान्तरे साध्वी बभूव जनकात्मजा । सीतादेवीति विख्याता यदर्थे रावणो हतः
महातपस्विनी सा च तपसा पूर्वजन्मतः । लेभे रामं च भर्तारं परिपूर्णतमं हरिम्
सम्प्राप तपसाऽऽराध्य दुराराध्यं जगत्पतिम् । सा रमा सुचिरं रेमे रामेण सह सुन्दरी
जातिस्मरा न स्मरति तपसश्च क्लमं पुरा । सुखेन तज्जहौ सर्वं दुःखं चापि सुखं फले
नानाप्रकारविभवं चकार सुचिरं सती । सम्प्राप्य सुकुमारं तमतीव नवयौवना
गुणिनं रसिकं शान्तं कान्तं देवमनुत्तमम् । स्त्रीणां मनोज्ञं रुचिरं तथा लेभे यथेप्सितम्
पितुः सत्यपालनार्थं सत्यसन्धो रघूद्वहः । जगाम काननं पश्चात्कालेन च बलीयसा