मर्यादा सर्वरक्षार्थं कृता वेदेषु सर्वशः । अन्यथा धर्मनाशः स्यात्सौगतानामिवानघ
धर्मनाशे विनष्टः स्याद्वर्णाचारोऽतिवर्तितः । अतो वेदप्रदिष्टेन मार्गेण गच्छतां शुभम्
शुक उवाच सन्देहो वर्तते राजन्न निवर्तति मे क्वचित् । भवता कथितं यत्तच्छृण्वतो मे नराधिप
वेदधर्मेषु हिंसा स्यादधर्मबहुला हि सा । कथं मुक्तिप्रदो धर्मो वेदोक्तो बत भूपते
प्रत्यक्षेण त्वनाचारः सोमपानं नराधिप । पशूनां हिंसनं तद्वद्भक्षणं चामिषस्य च
सौत्रामणौ तथा प्रोक्तः प्रत्यक्षेण सुराग्रहः । द्यूतक्रीडा तथा प्रोक्ता व्रतानि विविधानि च
श्रूयते स्म पुरा ह्यासीच्छशबिन्दुर्नृपोत्तमः । यज्वा धर्मपरो नित्यं वदान्यः सत्यसागरः
गोप्ता च धर्मसेतूनां शास्ता चोत्पथगामिनाम् । यज्ञाश्च विहितास्तेन बहवो भूरिदक्षिणाः
चर्मणां पर्वतो जातो विन्ध्याचलसमः पुनः । मेघाम्बुप्लावनाज्जाता नदी चर्मण्वती शुभा
सोऽपि राजा दिवं यातः कीर्तिरस्याचला भुवि । एवं धर्मेषु वेदेषु न मे बुद्धिः प्रवर्तते
स्त्रीसङ्गेन सदा भोगे सुखमाप्नोति मानवः । अलाभे दुःखमत्यन्तं जीवन्मुक्तः कथं भवेत्
जनक उवाच हिंसा यज्ञेषु प्रत्यक्षा साहिंसा परिकीर्तिता । उपाधियोगतो हिंसा नान्यथेति विनिर्णयः
यथा चेन्धनसंयोगादग्नौ धूमः प्रवर्तते । तद्वियोगात्तथा तस्मिन्निर्धूमत्वं विभाति वै
अहिंसां च तथा विद्धि वेदोक्तां मुनिसत्तम । रागिणां सापि हिंसैव निःस्पृहाणां न सा मता
अरागेण च यत्कर्म तथाहङ्कारवर्जितम् । अकृतं वेदविद्वांसः प्रवदन्ति मनीषिणः
गृहस्थानां तु हिंसैव या यज्ञे द्विजसत्तम । अरागेण च यत्कर्म तथाहंकारवर्जितम्
साहिंसैव महाभाग मुमुक्षूणां जितात्मनाम्
शुकस्य विवाहादिकार्यवर्णनम् शुक उवाच सन्देहोऽयं महाराज वर्तते हृदये मम । मायामध्ये वर्तमानः स कथं निःस्पृहो भवेत्
शास्त्रज्ञानं च सम्प्राप्य नित्यानित्यविचारणम् । त्यजते न मनो मोहं स कथं मुच्यते नरः
अन्तर्गतं तमश्छेत्तुं शास्त्राद्बोधो हि न क्षमः । यथा न नश्यति तमः कृतया दीपवार्तया
अद्रोहः सर्वभूतेषु कर्तव्यः सर्वदा बुधैः । स कथं राजशार्दूल गृहस्थस्य भवेत्तथा
वित्तैषणा न ते शान्ता तथा राज्यसुखैषणा । जयैषणा च सङ्ग्रामे जीवन्मुक्तः कथं भवेः
चौरेषु चौरबुद्धिस्तु साधुबुद्धिस्तु तापसे । स्वपरत्वं तवाप्यस्ति विदेहस्त्वं कथं नृप
कटुतीक्ष्णुकषायाम्लरसान्वेत्सि शुभाशुभान् । शुभेषु रमते चित्तं नाशुभेषु तथा नृप
जाग्रत्स्वप्नसुषुप्तिश्च तव राजन् भवन्ति हि । अवस्थास्तु यथाकालं तुरीया तु कथं नृप
पदात्यश्वरथेभाश्च सर्वे वै वशगा मम । स्वाम्यहं चैव सर्वेषां मन्यसे त्वं न मन्यसे
मिष्टमत्सि सदा राजन्मुदितो विमनास्तथा । मालायां च तथा सर्पे समदृक् क्व नृपोत्तम
विमुक्तस्तु भवेद्राजन् समलोष्टाश्मकाञ्चनः । एकात्मबुद्धिः सर्वत्र हितकृत्सर्वजन्तुषु
न मेऽद्य रमते चित्तं गृहदारादिषु क्वचित् । एकाकी निःस्पृहोऽत्यर्थं चरेयमिति मे मतिः
निःसङ्गो निर्ममः शान्तः पत्रमूलफलाशनः । मृगवद्विचरिष्यामि निर्द्वन्द्वो निष्परिग्रहः