अहमेवं चिन्तयामि तत्कल्याणं दिवानिशम् । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्
शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता । शिवं भवति तस्माच्च शिवं तेन विदुर्बुधाः
एतस्मिन्नन्तरे तत्र जगाम शङ्करः स्थितः । शूलहस्तो वृषारूढो रक्तपङ्कजलोचनः
अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकन्धरः । ननाम भक्त्या तं शान्तं लक्ष्मीकान्तं परात्परम्
रत्नसिंहासनस्थं च रत्नालङ्कारभूषितम् । किरीटिनं कुण्डलिनं चक्रिणं वनमालिनम्
नवीननीरदश्यामं सुन्दरं च चतुर्भुजम् । चतुर्भुजैः सेवितं च श्वेतचामरवायुना
चन्दनोक्षितसर्वाङ्गं भूषितं पीतवाससम् । लक्ष्मीप्रदत्तताम्बूलं भुक्तवन्तं च नारद
विद्याधरीनृत्यगीतं पश्यन्तं सस्मितं सदा । ईश्वरं परमात्मानं भक्तानुग्रहविग्रहम्
तं ननाम महादेवो ब्रह्मणा नमितश्च सः । ननाम सूर्यो भक्त्या च सन्त्रस्तश्चन्द्रशेखरम्
कश्यपश्च महाभक्त्या तुष्टाव च ननाम च । शिवः संस्तूय सर्वेशं समुवास सुखासने
सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् । श्वेतचामरवातेन सेवितं विष्णुपार्षदैः
पीयूषतुल्यमधुरं वचनं सुमनोहरम् । विष्णुरुवाच आगतोऽसि कथं चात्र वद कोपस्य कारणम्
महादेव उवाच वृषध्वजं च मद्भक्तं मम प्राणाधिकं प्रियम् । सूर्यः शशाप इति मे प्रकोपस्य तु कारणम्
पुत्रवत्सलशोकेन सूर्यं हन्तुं समुद्यतः । स ब्रह्माणं प्रपन्नश्च सूर्यश्च स विधिस्त्वयि
त्वयि ये शरणापन्ना ध्यानेन वचसापि वा । निरापदो विशङ्कास्ते जरा मृत्युश्च तैर्जितः
प्रत्यक्षं शरणापन्नास्तत्फलं किं वदामि भोः । हरिस्मृतिश्चाभयदा सर्वमङ्गलदा सदा
किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो । श्रीहतस्यास्य मूढस्य सूर्यशापेन हेतुना
विष्णुरुवाच कालोऽतियातो दैवेन युगानामेकविंशतिः । वैकुण्ठं घटिकार्धेन शीघ्रं गच्छ त्वमालयम्
वृषध्वजो मृतः कालाद्दुर्निवार्यात्सुदारुणात् । रथध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः
तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ । हृतश्रियौ सूर्यशापात्स्मृतौ परमवैष्णवौ
राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातपसा रतौ । तयोश्च भार्ययोर्लक्ष्मीः कलया च भविष्यति
सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः । मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत
इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरंगतः । देवा जग्मुः सम्प्रहृष्टाः स्वाश्रमं परया मुदा । शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ
महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् श्रीनारायण उवाच लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने । वरमिष्टं च प्रत्येकं सम्प्रापतुरभीप्सितम्
महालक्ष्मीवरेणैव तौ पृथ्वीशौ बभूवतुः । पुण्यवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ
कुशध्वजस्य पत्नी च देवी मालावती सती । सा सुषाव च कालेन कमलांशां सुतां सतीम्
सा च भूयिष्ठकालेन ज्ञानयुक्ता बभूव ह । कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहात्
वेदध्वनिं सा चकार जातमात्रेण कन्यका । तस्मात्तां च वेदवतीं प्रवदन्ति मनीषिणः
जातमात्रेण सुस्नाता जगाम तपसे वनम् । सर्वैर्निषिद्धा यत्नेन नारायणपरायणा
एकमन्वन्तरं चैव पुष्करे च तपस्विनी । अत्युग्रां च तपस्यां च लीलया हि चकार सा