नित्यमीर्ष्यति तां वाणी न च गङ्गा सरस्वतीम् । गङ्गा शशाप कोपेन भारते च हरिप्रिया
गङ्गया सह तस्यैव तिस्रो भार्या रमापतेः । सार्धं तुलस्या पश्चाच्च चतस्रश्चाभवन्मुने
नारायणनारदसंवादे शक्तिप्रादुर्भावः नारद उवाच नारायणप्रिया साध्वी कथं सा च बभूव ह । तुलसी कुत्र सम्भूता का वा सा पूर्वजन्मनि
कस्य वा सा कुले जाता कस्य कन्या कुले सती । केन वा तपसा सा च सम्प्राप्ता प्रकृतेः परम्
निर्विकारं निरीहं च सर्वविश्वस्वरूपकम् । नारायणं परं ब्रह्म परमेश्वरमीश्वरम्
सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम् । सर्वाधारं सर्वरूपं सर्वेषां परिपालकम्
कथमेतादृशी देवी वृक्षत्वं समवाप ह । कथं साप्यसुरग्रस्ता सम्बभूव तपस्विनी
सुस्निग्धं मे मनो लोलं प्रेरयन्मां मुहुर्मुहुः । छेत्तुमर्हसि सन्देहं सर्वं सन्देहभञ्जन
श्रीनारायण उवाच मनुश्च दक्षसावर्णिः पुण्यवान् वैष्णवः शुचिः । यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्भवः
तत्पुत्रो ब्रह्मसावर्णिर्धर्मिष्ठो वैष्णवः शुचिः । तत्पुत्रो धर्मसावर्णिर्वैष्णवश्च जितेन्द्रियः
तत्पुत्रो रुद्रसावर्णिर्भक्तिमान्विजितेन्द्रियः । तत्पुत्रो देवसावर्णिर्विष्णुव्रतपरायणः
तत्पुत्र इन्द्रसावर्णिर्महाविष्णुपरायणः । वृषध्वजश्च तत्पुत्रो वृषध्वजपरायणः
(वृक्षध्वज पाठभेद) यस्याश्रमे स्वयं शम्भुरासीद्देवयुगत्रयम् । पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च
न च नारायणं मेने न लक्ष्मीं न सरस्वतीम् । पूजां च सर्वदेवानां दूरीभूता चकार सः
भाद्रे मासि महालक्ष्मीपूजां मत्तो बभञ्ज ह । तथा माघीयपञ्चम्यां विस्मृता सर्वदैवतैः
पापः सरस्वतीपूजां दूरीभूता चकार सः । यज्ञं च विष्णुपूजां च निन्दन्तं तं दिवाकरः
चुकोप देवो भूपेन्द्रं शशाप शिवकारणात् । भ्रष्टश्रीस्त्वञ्च भवेति तं शशाप दिवाकरः
शूलं गृहीत्वा तं सूर्यमधावच्छङ्करः स्वयम् । पित्रा सार्धं दिनेशश्च ब्रह्माणं शरणं ययौ
शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा । ब्रह्मा सूर्यं पुरस्कृत्य वैकुण्ठं च ययौ भिया
ब्रह्मकश्यपमार्तण्डाः सन्त्रस्ताः शुष्कतालुकाः । नारायणं च सर्वेशं ते ययुः शरणं भिया
मूर्छा प्रणेमुस्ते गत्वा तुष्टुवुश्च पुनः पुनः । सर्वं निवेदनं चक्रुर्भयस्य कारणं हरौ
नारायणश्च कृपया तेभ्यश्च ह्यभयं ददौ । स्थिरा भवत हे भीता भयं किञ्च मयि स्थिते
स्मरन्ति ये यत्र तत्र मां विपत्तौ भयान्विताः । तांस्तत्र गत्वा रक्षामि चक्रहस्तस्त्वरान्वितः
पाताहं जगतां देवाः कर्ता च सततं सदा । स्रष्टा च ब्रह्मरूपेण संहर्ता शिवरूपतः
शिवोऽहं त्वमहं चापि सूर्योऽहं त्रिगुणात्मकः । विधाय नानारूपं च करोमि सृष्टिपालनम्
यूयं गच्छत भद्रं वो भविष्यति भयं कुतः । अद्यप्रभृति मद्वरेण भयं वो नास्ति शङ्करात्
सर्वेशो वै स भगवाच्छङ्करश्च सतां पतिः । भक्ताधीनश्च भक्तानां भक्तात्मा भक्तवत्सलः
सुदर्शनः शिवश्चैव मम प्राणाधिकः प्रियः । ब्रह्माण्डेषु न तेजस्वी हे ब्रह्मन्ननयोः परः
शक्तः स्रष्टुं महादेवः सूर्यकोटिं च लीलया । कोटिं च ब्रह्मणामेवं नासाध्यं शूलिनः प्रभोः
बाह्यज्ञानं नैव किञ्चिद्ध्यायते मां दिवानिशम् । मन्मन्त्रान्मद्गुणान्भक्त्या पञ्चवक्त्रेण गायति