एते जीवन्ति गोलोके कालचक्रविवर्जिते । जलाप्लुते सर्वविश्वं जातं कल्पक्षयोऽधुना
ब्रह्माद्या येऽन्यविश्वस्थास्ते विलीनाधुना मयि । वैकुण्ठं च विना सर्वं जलमग्नं च पद्मज
गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं भवम् । स्वं ब्रह्माण्डं विरचय पश्चाद् गङ्गा प्रयास्यति
एवमन्येषु विश्वेषु सृष्टौ ब्रह्मादिकं पुनः । करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह
गतो बहुतरः कालो युष्माकं च चतुर्मुखाः । गताः कतिविधास्ते च भविष्यन्ति च वेधसः
इत्युक्त्वा राधिकानाथो जगामान्तःपुरे मुने । देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्नतः
गोलोके च स्थिता गङ्गा वैकुण्ठे शिवलोकके । ब्रह्मलोके स्थितान्यत्र यत्र यत्र पुरः स्थिता
तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः । निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता
इत्येवं कथितं ब्रह्मन् गङ्गोपाख्यानमुत्तमम् । सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि
गङ्गायाः कृष्णपत्नीत्ववर्णनम् नारद उवाच लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी । एता नारायणस्यैव चतस्रश्च प्रिया इति
गङ्गा जगाम वैकुण्ठमिदमेव श्रुतं मया । कथं सा तस्य पत्नी च बभूवेति च न श्रुतम्
श्रीनारायण उवाच गङ्गा जगाम वैकुण्ठं तत्पश्चाज्जगतां विधिः । गत्वोवाच तया सार्धं प्रणम्य जगदीश्वरम्
ब्रह्मोवाच राधाकृष्णाङ्गसम्भूता या देवी द्रवरूपिणी । नवयौवनसम्पन्ना सुशीला सुन्दरी वरा
शुद्धसत्त्वस्वरूपा च क्रोधाहङ्कारवर्जिता । तदङ्गसम्भवा नान्यं वृणोतीयं च तं विना
तत्रातिमानिनी राधा सा च तेजस्विनी वरा । समुद्युक्ता पातुमिमां भीतेयं बुद्धिपूर्वकम्
विवेश चरणाम्भोजे कृष्णस्य परमात्मनः । सर्वत्र गोलकं शुष्कं दृष्ट्वाहमगमं तदा
गोलोके यत्र कृष्णश्च सर्ववृत्तान्तप्राप्तये । सर्वान्तरात्मा सर्वेषां ज्ञात्वाभिप्रायमेव च
बहिश्चकार गङ्गा च पादाङ्गुष्ठनखाग्रतः । दत्त्वास्यै राधिकामन्त्रं पूरयित्वा च गोलकम्
प्रणम्य तां च राधेशं गृहीत्वात्रागमं प्रभो । गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम्
सुरेश्वरेषु रसिको रसिकेयं समागता । त्वं रत्नं पुंसु देवेश स्त्रीरत्नं स्त्रीष्वियं सती
विदग्धया विदग्धेन सङ्गमो गुणवान् भवेत् । उपस्थितां स्वयं कन्यां न गृह्णातीह यः पुमान्
तं विहाय महालक्ष्मी रुष्टा याति न संशयः । यो भवेत्पण्डितः सो ऽपि प्रकृतिं नावमन्यते
सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः । त्वमेव भगवान्नाथो निर्गुणः प्रकृतेः परः
अर्धाङ्गं द्विभुजः कृष्णो योऽर्धाङ्गेन चतुर्भुजः । कृष्णवामाङ्गसम्भूता बभूव राधिका पुरा
दक्षिणांशः स्वयं सा च वामांशः कमला तथा । तेनेयं त्वां वृणोत्येव यतस्त्वद्देहसम्भवा
एकाङ्गं चैव स्त्रीपुंसोर्यथा प्रकृतिपूरुषौ । इत्येवमुक्त्वा धाता तां तं समर्प्य जगाम सः
गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् । नारायणः करं धृत्वा पुष्पचन्दनचर्चितम्
रेमे रमापतिस्तत्र गङ्गया सहितो मुदा । गङ्गा पृथ्वीं गता या सा स्वस्थानं पुनरागता
निर्गता विष्णुपादाब्जात्तेन विष्णुपदीति च । मूर्च्छां सम्प्राप सा देवी नवसङ्गमलीलया
रसिका सुखसम्भोगाद्रसिकेश्वरसंयुता । तां दृष्ट्वा दुःखिता वाणी पद्मया वर्जितापि च