निवेदितं जगन्नाथं स्वाभिप्रायमभीप्सितम् । ब्रह्मा तद्वचनं श्रुत्वा विष्णुं कृत्वा स्वदक्षिणे
वामतो वामदेवं च जगाम कृष्णसन्निधिम् । परमानन्दयुक्तं च परमानन्दरूपिणीम्
सर्वं कृष्णमयं धाता ददर्श रासमण्डले । सर्वं समानवेषं च समानासनसंस्थितम्
द्विभुजं मुरलीहस्तं वनमालाविभूषितम् । मयूरपिच्छचूडं च कौस्तुभेन विराजितम्
अतीव कमनीयं च सुन्दरं शान्तविग्रहम् । गुणभूषणरूपेण तेजसा वयसा त्विषा
परिपूर्णतमं सर्वं सर्वैश्वर्यसमन्वितम् । किं सेव्यं सेवकं किं वा दृष्ट्वा निर्वक्तुमक्षमः
क्षणं तेजः स्वरूपं च रूपं तत्र स्थितं क्षणम् । निराकारं च साकारं ददर्श द्विविधं क्षणम्
एकमेव क्षणं कृष्णं राधया रहितं परम् । प्रत्येकासनसंस्थं च तया सार्धं च तत्क्षणम्
राधारूपधरं कृष्णं कृष्णरूपं कलत्रकम् । किं स्त्रीरूपं च पुरुषं विधाता ध्यातुमक्षमः
हृत्पद्मस्थं च श्रीकृष्णं ध्यात्वा ध्यानेन चक्षुषा । चकार स्तवनं भक्त्या परिहारमनेकधा
ततः स्वचक्षुरुन्मील्य पुनश्च तदनुज्ञया । ददर्श कृष्णमेकं च राधावक्षःस्थलस्थितम्
स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् । पुनः प्रणेमुस्तं दृष्ट्वा तुष्टुवुः परमेश्वरम्
तदभिप्रायमाज्ञाय तानुवाच रमेश्वरः । सर्वात्मा स च सर्वज्ञः सर्वेशः सर्वभावनः
श्रीभगवानुवाच आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते । इहागच्छ महादेव शश्वत्कुशलमस्तु वः
आगता हि महाभागा गङ्गानयनकारणात् । गङ्गा च चरणाम्भोजे भयेन शरणं गता
राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः । दास्यामीमां च भवतां यूयं कुरुत निर्भयाम्
श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः । तुष्टाव राधामाराध्यां श्रीकृष्णपरिपूजिताम्
वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः । धाता चतुर्णां वेदानामुवाच चतुराननः
चतुरानन उवाच गङ्गा त्वदङ्गसम्भूता प्रभोश्च रासमण्डले । युवयोर्द्रवरूपा सा मुग्धयोः शङ्करस्वनात्
कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया । त्वन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम्
गोलोकस्था च या गङ्गा सर्वत्रस्था तथाम्बिके । तदम्बिका त्वं देवेशी सर्वदा सा त्वदात्मजा
ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता । वहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः
तत्रैव सत्कृता शान्ता तस्थौ तेषां च मध्यतः । उवास तोयादुत्थाय तदधिष्ठातृदेवता
तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ । किञ्चिद्दधार शिरसि चन्द्रार्धकृतशेखरः
गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः । तत्स्तोत्रं कवचं पूजां विधानं ध्यानमेव च
सर्वं तत्सामवेदोक्तं पुरश्चर्याक्रमं तथा । गङ्गा तामेव सम्पूज्य वैकुण्ठं प्रययौ सह
लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी । एता नारायणस्यैव चतस्रो योषितो मुने
अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच सः । सर्वकालस्य वृत्तान्तं दुर्बोधमविपश्चितम्
श्रीकृष्ण उवाच गृहाण गङ्गां हे ब्रह्मन् हे विष्णो हे महेश्वर । शृणु कालस्य वृत्तान्तं मत्तो ब्रह्मन्निशामय
यूयं च येऽन्ये देवाश्च मुनयो मनवस्तथा । सिद्धा यशस्विनश्चैव ये येऽत्रैव समागताः