होतारं प्रार्थयामास श्रद्धाऽथ दयिता मनोः । कन्या भवतु मे ब्रह्मंस्तथोपायो विधीयताम्
मनसा चिन्तयन्होता कन्यामेवाजुहोद्धविः । ततस्तद्व्यभिचारेण कन्येला नाम चाभवत्
अथ राजा सुतां दृष्ट्वा प्रोवाच विमना गुरुम् । कथं सङ्कल्पवैषम्यमिह जातं प्रभो तव
तच्छ्रुत्वा स मुनिर्दध्यौ ज्ञात्वा होतुर्व्यतिक्रमम् । ईश्वरं शरणं यात इलायाः पुंस्त्वकाम्यया
मुनेस्तपःप्रभावाच्च परेशानुग्रहात्तथा । पश्यतां सर्वलोकानामिला पुरुषतामगात्
गुरुणा कृतसंस्कारः सुद्युम्नोऽथ मनोः सुतः । निधिर्बभूव विद्यानां सरितामिव सागरः
अथ कालेन सुद्युम्नस्तारुण्यं समवाप्य च । मृगयार्थं वनं यातो हयमारुह्य सैन्धवम्
वनाद्वनांतरं गच्छन्बहु बभ्राम सानुगः । दैवादधस्ताद्धेमाद्रेः स कुमारो वनं ययौ
कस्मिंश्चित्समये यत्र भार्ययाऽपर्णया सह । अरमद्देवदेवस्तु शङ्करो भगवान्मुदा
तदा तु मुनयस्तत्र शिवदर्शनलालसाः । आजग्मुरथ तान्दृष्ट्वा गिरिजा व्रीडिताऽभवत्
रममाणौ तु तौ दृष्ट्वा गिरिशौ संशितव्रताः । निवृत्ता मुनयो जग्मुर्वैकुण्ठनिलयं तदा
प्रियायाः प्रियमन्विच्छञ्छिवोऽरण्यं शशाप ह । अद्यारभ्य विशेद्योऽत्र पुमान् योषिद्भवेदिति
तत आरभ्य तं देशं पुरुषा वर्जयंति हि । तत्र प्रविष्टः सुद्युम्नो बभूव प्रमदोत्तमा
स्त्रीभूतानुगानश्वं वडवां वीक्ष्य विस्मितः । अथ सा सुन्दरी योषा विचचार वने वने
एकदा सा जगामाथ बुधस्याश्रमसन्निधौ । दृष्ट्वा तां चारुसर्वाङ्गीं पीनोन्नतपयोधराम्
बिंबोष्ठीं कुन्ददशनां सुमुखीमुत्पलेक्षणाम् । अनङ्गशरविद्धांगश्चकमे भगवान्बुधः
सापि तं चकमे सुभ्रूः कुमारं सोमनंदनम् । ततस्तस्याश्रमेऽवात्सीद्रममाणा बुधेन सा
अथ कालेन कियता पुरूरवसमात्मजम् । स तस्यां जनयामास मित्रावरुणसंभवः
अथ वर्षेषु यातेषु कदाचित्सा बुधाश्रमे । स्मृत्वा स्वं पूर्ववृत्तान्तं दुःखिता निर्जगाम ह
गुरोरथाश्रमं गत्वा वसिष्ठस्य प्रणम्य तम् । निवेद्य वृत्तं शरणं ययौ पुंस्त्वमभीप्सती
वसिष्ठो ज्ञातवृत्तांतो गत्वा कैलासपर्वतम् । संपूज्य शंभुं तुष्टाव भक्त्या परमया युतः
वसिष्ठ उवाच। नमो नमः शिवायास्तु शंकराय कपर्दिने । गिरिजार्द्धाङ्गदेहाय नमस्ते चंद्रमौलये
मृडाय सुखदात्रे ते नमः कैलासवासिने । नीलकण्ठाय भक्तानां भुक्तिमुक्तिप्रदायिने
शिवाय शिवरूपाय प्रपन्नभयहारिणे । नमो वृषभवाहाय शरण्याय परात्मने
ब्रह्मविष्ण्वीशरूपाय सर्गस्थितिलयेषु च । नमो देवाधिदेवाय वरदाय पुरारये
यज्ञरूपाय यजतां फलदात्रे नमो नमः । गंगाधराय सूर्येन्दुशिखिनेत्राय ते नमः
एवं स्तुतः स भगवान्प्रादुरासीज्जगत्पतिः । वृषारूढोऽम्बिकोपेतः कोटिसूर्यसमप्रभः
रजताचलसंकाशस्त्रिनेत्रश्चंद्रशेखरः। प्रणतं परितुष्टात्मा प्रोवाच मुनिसत्तमम्
श्रीभगवानुवाच। वरं वरय विप्रर्षे यत्ते मनसि वर्तते । इत्युक्तस्तं प्रणम्येला पुँस्त्वमभ्यर्थयन्मुनिः
अथ प्रसन्नो भगवानुवाच मुनिसत्तमम् । मासं पुमान्स भविता मासं नारी भविष्यति