धार्मिकेभ्यश्च धर्माय दुर्बलेभ्यश्च किञ्चन । तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किञ्चन
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि । त्वद्गुणं चैव बहुशो न जानामि परं प्रभो
इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना । गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम्
गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । तिरोभूय सभामध्ये स्वजलं प्रविवेश सा
राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् । पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी
गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । श्रीकृष्णचरणाम्भोजे विवेश शरणं ययौ
गोलोके सा च वैकुण्ठे ब्रह्मलोकादिके तथा । ददर्श राधा सर्वत्र नैव गङ्गां ददर्श सा
सर्वत्र जलशून्यं च शुष्कपङ्कं च गोलकम् । जलजन्तुसमूहैश्च मृतदेहैः समन्वितम्
ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः । मनवो मुनयः सर्वे देवसिद्धतपस्विनः
गोलोकं च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः । सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम्
वरं वरेण्यं वरदं वरिष्ठं वरकारणम् । गोपिकागोपवृन्दानां सर्वेषां प्रवरं प्रभुम्
निरीहं च निराकारं निर्लिप्तं च निराश्रयम् । निर्गुणं च निरुत्साहं निर्विकारं निरञ्जनम्
स्वेच्छामयं च साकारं भक्तानुग्रहकारकम् । सत्त्वस्वरूपं सत्येशं साक्षिरूपं सनातनम्
परं परेशं परमं परमात्मानमीश्वरम् । प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः
सगद्गदाः साश्रुनेत्राः पुलकाङ्कितविग्रहाः । सर्वे संस्तूय सर्वेशं भगवन्तं परात्परम्
ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् । अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम्
सेव्यमानं च गोपालैः श्वेतचामरवायुना । गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा
प्राणाधिकप्रियतमं राधावक्षःस्थलस्थितम् । तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम्
परिपूर्णतमं रासे ददृशुश्च सुरेश्वरम् । मुनयो मनवः सिद्धास्तापसाश्च तपस्विनः
प्रहृष्टमनसः सर्वे जग्मुः परमविस्मयम् । परस्परं समालोक्य प्रोचुस्ते च चतुर्मुखम्
निवेदितं जगन्नाथं स्वाभिप्रायमभीप्सितम् । ब्रह्मा तद्वचनं श्रुत्वा विष्णुं कृत्वा स्वदक्षिणे
वामतो वामदेवं च जगाम कृष्णसन्निधिम् । परमानन्दयुक्तं च परमानन्दरूपिणीम्
सर्वं कृष्णमयं धाता ददर्श रासमण्डले । सर्वं समानवेषं च समानासनसंस्थितम्
द्विभुजं मुरलीहस्तं वनमालाविभूषितम् । मयूरपिच्छचूडं च कौस्तुभेन विराजितम्
अतीव कमनीयं च सुन्दरं शान्तविग्रहम् । गुणभूषणरूपेण तेजसा वयसा त्विषा
परिपूर्णतमं सर्वं सर्वैश्वर्यसमन्वितम् । किं सेव्यं सेवकं किं वा दृष्ट्वा निर्वक्तुमक्षमः
क्षणं तेजः स्वरूपं च रूपं तत्र स्थितं क्षणम् । निराकारं च साकारं ददर्श द्विविधं क्षणम्
एकमेव क्षणं कृष्णं राधया रहितं परम् । प्रत्येकासनसंस्थं च तया सार्धं च तत्क्षणम्
राधारूपधरं कृष्णं कृष्णरूपं कलत्रकम् । किं स्त्रीरूपं च पुरुषं विधाता ध्यातुमक्षमः
हृत्पद्मस्थं च श्रीकृष्णं ध्यात्वा ध्यानेन चक्षुषा । चकार स्तवनं भक्त्या परिहारमनेकधा