किञ्चिन्नूतनपत्रेभ्यो दुग्धेभ्यश्चापि किञ्चन । दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया । प्रभा देहं परित्यज्य जगाम सूर्यमण्डले
ततस्तस्याः शरीरं च तीव्रं तेजो बभूव ह । संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा
विसृष्टं चक्षुषोः कृष्ण लज्जया मद्भयेन च । हुताशनाय किञ्चिच्च यक्षेभ्यश्चापि किञ्चन
किञ्चित्पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन । किञ्चिद्विष्णुजनेभ्यश्च नागेभ्योऽपि च किञ्चन
ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन । स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन
तत्तु दत्त्वा च सर्वेभ्यः पूर्वं प्ररुदितं त्वया । शान्तिगोप्या युतस्त्वं च दृष्टोऽसि रासमण्डले
वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः । रत्नप्रदीपैर्युक्ते च रत्ननिर्माणमन्दिरे
रत्नभूषणभूषाढ्यो रत्नभूषितया सह । तया दत्तं च ताम्बूलं भुक्तवांश्च पुरा विभो
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया । शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह । संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा
विश्वे तु विपिने किञ्चिद्ब्रह्मणे च मयि प्रभो । शुद्धसत्त्वस्वरूपायै किञ्चिल्लक्ष्म्यै पुरा विभो
त्वन्मन्त्रोपासकेभ्यश्च शाक्तेभ्यश्चापि किञ्चन । तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किञ्चन
मया पूर्वं च त्वं दृष्टो गोप्या च क्षमया सह । सुवेषयुक्तो मालावान् गन्धचन्दनचर्चितः
रत्नभूषितया गन्धचन्दनोक्षितया सह । सुखेन मूर्च्छितस्तल्पे पुष्पचन्दनचर्चिते
श्लिष्टो निद्रितया सद्यः सुखेन नवसङ्गमात् । मया प्रबोधिता सा च भवांश्च स्मरणं कुरु
गृहीतं पीतवस्त्रं च मुरली च मनोहरा । वनमालाकौस्तुभश्चाप्यमूल्यं रत्नकुण्डलम्
पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो । लज्जया कृष्णवर्णोऽभूद्भवान् पापेन यः प्रभो
क्षमा देहं परित्यज्य लज्जया पृथिवीं गता । ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुनः । किञ्चिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किञ्चन
धार्मिकेभ्यश्च धर्माय दुर्बलेभ्यश्च किञ्चन । तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किञ्चन
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि । त्वद्गुणं चैव बहुशो न जानामि परं प्रभो
इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना । गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम्
गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । तिरोभूय सभामध्ये स्वजलं प्रविवेश सा
राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् । पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी
गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । श्रीकृष्णचरणाम्भोजे विवेश शरणं ययौ
गोलोके सा च वैकुण्ठे ब्रह्मलोकादिके तथा । ददर्श राधा सर्वत्र नैव गङ्गां ददर्श सा
सर्वत्र जलशून्यं च शुष्कपङ्कं च गोलकम् । जलजन्तुसमूहैश्च मृतदेहैः समन्वितम्
ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः । मनवो मुनयः सर्वे देवसिद्धतपस्विनः
गोलोकं च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः । सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम्