प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् । सखीदत्तं च ताम्बूलं भुक्तवन्तीं च दुर्लभम्
अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम् । कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम्
दृष्ट्वा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी । निमेषरहिताभ्यां च लोचनाभ्यां पपौ च ताम्
एतस्मिन्नन्तरे राधा जगदीशमुवाच सा । वाचा मधुरया शान्ता विनीता सस्मिता मुने
राधोवाच केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् । पश्यन्ती सस्मितं पार्श्वे सकामा वक्रलोचना
मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा । वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः
त्वं चापि तां संनिरीक्ष्य सकामः सस्मितः सदा । मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी
त्वमेव चैव दुर्वृत्तं वारं वारं करोषि च । क्षमां करोमि प्रेम्णा च स्त्रीजातिः स्निग्धमानसा
संगृह्येमां प्रियामिष्टां गोलोकाद् गच्छ लम्पट । अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर
दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने । क्षमा कृता मया पूर्वं सखीनां वचनादहो
त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा । देहं तत्याज विरजा नदीरूपा बभूव सा
कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा । अद्यापि विद्यमाना सा तव सत्कीर्तिरूपिणी
गृहं मयि गतायां च पुनर्गत्वा तदन्तिके । उच्चै रुरोद विरजे विरजे चेति संस्मरन्
तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी । सालङ्कारा मूर्तिमती ददौ तुभ्यं च दर्शनम्
ततस्तां च समाक्षिप्य वीर्याधानं कृतं त्वया । ततो बभूवुस्तस्यां च समुद्राः सप्त एव च
दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने । सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया
शोभा देहं परित्यज्य जगाम चन्द्रमण्डले । ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह
संविभज्य त्वया दत्तं हृदयेन विदूयता । रत्नाय किञ्चित्स्वर्णाय किञ्चिन्मणिवराय च
किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन । किञ्चित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन
किञ्चित्कलेभ्यः पक्वेभ्यः सस्येभ्यश्चापि किञ्चन । नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किञ्चन
किञ्चिन्नूतनपत्रेभ्यो दुग्धेभ्यश्चापि किञ्चन । दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया । प्रभा देहं परित्यज्य जगाम सूर्यमण्डले
ततस्तस्याः शरीरं च तीव्रं तेजो बभूव ह । संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा
विसृष्टं चक्षुषोः कृष्ण लज्जया मद्भयेन च । हुताशनाय किञ्चिच्च यक्षेभ्यश्चापि किञ्चन
किञ्चित्पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन । किञ्चिद्विष्णुजनेभ्यश्च नागेभ्योऽपि च किञ्चन
ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन । स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन
तत्तु दत्त्वा च सर्वेभ्यः पूर्वं प्ररुदितं त्वया । शान्तिगोप्या युतस्त्वं च दृष्टोऽसि रासमण्डले
वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः । रत्नप्रदीपैर्युक्ते च रत्ननिर्माणमन्दिरे
रत्नभूषणभूषाढ्यो रत्नभूषितया सह । तया दत्तं च ताम्बूलं भुक्तवांश्च पुरा विभो
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया । शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो