श्रीनारायण उवाच पुरा बभूव गोलोके सा गङ्गा द्रवरूपिणी । राधाकृष्णाङ्गसम्भूता तदंशा तत्स्वरूपिणी
द्रवाधिष्ठातृदेवी या रूपेणाप्रतिमा भुवि । नवयौवनसम्पन्ना सर्वाभरणभूषिता
शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा । तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा
स्निग्धप्रभातिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी । सुपीनकठिनश्रोणिः सुनितम्बयुगंधरा
पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् । सुचारुनेत्रयुगलं सुकटाक्षं सुवंक्रिमम्
वंक्रिमं कबरीभारं मालतीमाल्यसंयुतम् । सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः
कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोरमम् । बन्धूककुसुमाकारमधरोष्ठं च सुन्दरम्
पक्वदाडिमबीजाभदन्तपंक्तिसमुज्ज्वलम् । वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती
सा सकामा कृष्णपार्श्वे समुवास सुलज्जिता । वाससा मुखमाच्छाद्य लोचनाभ्यां विभोर्मुखम्
निमेषरहिताभ्यां च पिबन्ती सततं मुदा । प्रफुल्लवदना हर्षान्नवसङ्गमलालसा
मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा । एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका
गोपीत्रिंशत्कोटियुक्ता चन्द्रकोटिसमप्रभा । कोपेनारक्तपद्मास्या रक्तपङ्कजलोचना
पीतचम्पकवर्णाभा गजेन्द्रमन्दगामिनी । अमूल्यरत्ननिर्माणनानाभूषणभूषिता
अमूल्यरत्नखचितममूल्यं वह्निशौचकम् । पीतवस्त्रस्य युगलं नीवीयुक्तं च बिभ्रती
स्थलपद्मप्रभामुष्टं कोमलं च सुरञ्जितम् । कृष्णदत्तार्घ्यसंयुक्तं विन्यसन्ती पदाम्बुजम्
रत्नेन्द्रसारनिर्माणविमानादवरुह्य सा । सेव्यमाना च ऋषिभिः श्वेतचामरवायुना
कस्तूरीबिन्दुभिर्युक्तं चन्दनेन समन्वितम् । दीप्तदीपप्रभाकारं सिन्दूरं बिन्दुशोभितम्
दधती भालमध्ये च सीमन्ताधःस्थलोज्ज्वले । पारिजातप्रसूनानां मालायुक्तं सुवंक्रिमम्
सुचारुकबरीभारं कम्पयन्ती सुकम्पिता । सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा
गत्वोवास कृष्णपार्श्वे रत्नसिंहासने शुभे । सखीनां च समूहैश्च परिपूर्णा विभोः प्रिया
तां दृष्ट्वा च समुत्तस्थौ कृष्णः सादरपूर्वकम् । सम्भाष्य मधुरालापैः सस्मितश्च ससंभ्रमः
प्रणेमुरतिसन्त्रस्ता गोपा नम्रात्मकन्धराः । तुष्टुवुस्ते च भक्त्या च तुष्टाव परमेश्वरः
उत्थाय गङ्गा सहसा स्तुतिं बहु चकार सा । कुशलं परिपप्रच्छ भीतातिविनयेन च
नम्रभागस्थिता त्रस्ता शुष्ककण्ठोष्ठतालुका । ध्यानेन शरणायत्ता श्रीकृष्णचरणाम्बुजे
तां हृत्पद्मस्थितां कृष्णो भीतायै चाभयं ददौ । बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च
ऊर्ध्वसिंहासनस्थां च राधां गङ्गा ददर्श सा । सुस्निग्धां सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा
असंख्यब्रह्मणः कर्त्रीमादिसृष्टेः सनातनीम् । सदा द्वादशवर्षीयां कन्याभिनवयौवनाम्
विश्ववृन्दे निरुपमां रूपेण च गुणेन च । शान्तां कान्तामनन्तां तामाद्यन्तरहितां सतीम्
शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् । सौन्दर्यसुन्दरीं श्रेष्ठां सर्वासु सुन्दरीषु च
कृष्णार्धाङ्गां कृष्णसमां तेजसा वयसा त्विषा । पूजितां च महालक्ष्मीं लक्ष्म्या लक्ष्मीश्वरेण च