दुर्जरं वासनाजालं न शान्तिमुपयाति वै । अतस्तच्छमनार्थाय क्रमेण च परित्यजेत्
ऊर्ध्वं सुप्तः पतत्येव न शयानः पतत्यधः । परिव्रज्य परिभ्रष्टो न मार्गं लभते पुनः
यथा पिपीलिका मूलाच्छाखायामधिरोहति । शनैः शनैः फलं याति सुखेन पदगामिनी
विहङ्गस्तरसा याति विघ्नशङ्कामुदस्य वै । श्रान्तो भवति विश्रम्य सुखं याति पिपीलिका
मनस्तु प्रबलं काममजेयमकृतात्मभिः । अतः क्रमेण जेतव्यमाश्रमानुक्रमेण च
गृहस्थाश्रमसंस्थोऽपि शान्तः सुमतिरात्मवान् । न च हृष्येन्न च तपेल्लाभालाभे समो भवेत्
विहतं कर्म कुर्वाणस्त्यजंश्चिन्तान्वितं च यत् । आत्मलाभेन सन्तुष्टो मुच्यते नात्र संशयः
पश्याहं राज्यसंस्थोऽपि जीवन्मुक्तो यथानघ । विचरामि यथाकामं न मे किञ्चित्प्रजायते
भुञ्जानो विविधान्भोगान्कुर्वन्कार्याण्यनेकशः । भविष्यामि यथाहं त्वं तथा मुक्तो भवानघ
कथ्यते खलु यद्दृश्यमदृश्यं बध्यते कुतः । दृश्यानि पञ्चभूतानि गुणास्तेषां तथा पुनः
आत्मा गम्योऽनुमानेन प्रत्यक्षो न कदाचन । स कथं बध्यते ब्रह्मन्निर्विकारो निरञ्जनः
मनस्तु सुखदुःखानां महतां कारणं द्विज । जाते तु निर्मले ह्यस्मिन्सर्वं भवति निर्मलम्
भ्रमन्सर्वेषु तीर्थेषु स्नात्वा स्नात्वा पुनः पुनः । निर्मलं न मनो यावत्तावत्सर्वं निरर्थकम्
न देहो न च जीवात्मा नेन्द्रियाणि परन्तप । मन एव मनुष्याणां कारणं बन्धमोक्षयोः
शुद्धो मुक्तः सदैवात्मा न वै बध्येत कर्हिचित् । बन्धमोक्षौ मनःसंस्थौ तस्मिञ्छान्ते प्रशाम्यति
शत्रुर्मित्रमुदासीनो भेदाः सर्वे मनोगताः । एकात्मत्वे कथं भेदः सम्भवेद्द्वैतदर्शनात्
जीवो ब्रह्म सदैवाहं नात्र कार्या विचारणा । भेदबुद्धिस्तु संसारे वर्तमाना प्रवर्तते
अविद्येयं महाभाग विद्या चैतन्निवर्तनम् । विद्याविद्ये च विज्ञेये सर्वदैव विचक्षणैः
विनातपं हि छायाया ज्ञायते च कथं सुखम् । अविद्यया विना तद्वत्कथं विद्यां च वेत्ति वै
गुणा गुणेषु वर्तन्ते भूतानि च तथैव च । इन्द्रियाणीन्द्रियार्थेषु को दोषस्तत्र चात्मनः
मर्यादा सर्वरक्षार्थं कृता वेदेषु सर्वशः । अन्यथा धर्मनाशः स्यात्सौगतानामिवानघ
धर्मनाशे विनष्टः स्याद्वर्णाचारोऽतिवर्तितः । अतो वेदप्रदिष्टेन मार्गेण गच्छतां शुभम्
शुक उवाच सन्देहो वर्तते राजन्न निवर्तति मे क्वचित् । भवता कथितं यत्तच्छृण्वतो मे नराधिप
वेदधर्मेषु हिंसा स्यादधर्मबहुला हि सा । कथं मुक्तिप्रदो धर्मो वेदोक्तो बत भूपते
प्रत्यक्षेण त्वनाचारः सोमपानं नराधिप । पशूनां हिंसनं तद्वद्भक्षणं चामिषस्य च
सौत्रामणौ तथा प्रोक्तः प्रत्यक्षेण सुराग्रहः । द्यूतक्रीडा तथा प्रोक्ता व्रतानि विविधानि च
श्रूयते स्म पुरा ह्यासीच्छशबिन्दुर्नृपोत्तमः । यज्वा धर्मपरो नित्यं वदान्यः सत्यसागरः
गोप्ता च धर्मसेतूनां शास्ता चोत्पथगामिनाम् । यज्ञाश्च विहितास्तेन बहवो भूरिदक्षिणाः
चर्मणां पर्वतो जातो विन्ध्याचलसमः पुनः । मेघाम्बुप्लावनाज्जाता नदी चर्मण्वती शुभा
सोऽपि राजा दिवं यातः कीर्तिरस्याचला भुवि । एवं धर्मेषु वेदेषु न मे बुद्धिः प्रवर्तते