कुत्र वा केन विधिना तत्सर्वं वद मे प्रभो
एतत्सर्वं तु विस्तीर्णं कृत्वा वक्तुमिहार्हसि कार्तिक्यां पूर्णिमायां तु राधायाः सुमहोत्सवः
कृष्णः संपूज्य तां राधामुवास रासमण्डले
ऊषुर्ब्रह्मादयः सर्वे ऋषयः शौनकादयः
जगौ सुन्दरतालेन वीणया च मनोहरम् 9.12.
शिवो मणींद्रसारं तु सर्वब्रह्माण्ड दुर्लभम्
अमूल्यरत्ननिर्माणं हारसारं च राधिका
अमूल्यरत्ननिर्माणं लक्ष्मीः कनककुंडलम्
दुर्गा नारायणीशाना ब्रह्मभक्तिं सुदुर्लभाम्
वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरान्
जगौ श्रीकृष्णसंगीतं ससोल्लाससमन्वितम्
कष्टेन चेतनां प्राप्य ददृशू रासमंडले
अत्युच्चै रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः
गतश्च राधया सार्धं श्रीकृष्णो द्रवतामिति
स्वमूर्तिं दर्शय विभो वांछितं वरमेव नः 9.12.
तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरान्विताम्
ममाप्यस्याश्च देहेन कर्त्तव्यं च किमावयोः
मन्मन्त्रपूता मां द्रष्टुमागमिष्यंति मत्पदम्
करोतु शंभुस्तत्रैवं मदीयं वाक्यपालनम्
कर्तुं शास्त्रविशेषं च वेदांगं सुमनोहरम्
स्तोत्रैश्च च निकरैर्ध्यानैर्युतं पूजाविधिक्रमैः
भवंति विमुखा येन जना मां तत्करिष्यति
जना मन्मंत्रपूताश्च गमिष्यंति च मत्पदम्
निष्फलं भविता सर्वं ब्रह्मांडं चैव ब्रह्मणः
पृथिवीवासिनः कचित्केचित्स्वर्गनिवासिनः 9.12.
प्रतिज्ञां सुदृढां सद्य स्ततो मूर्तिं च द्रक्ष्यति
तच्छुत्वा जगतां धाता तमुवाच शिवं मुदा
गंगातोयं करे कृत्वा स्वीकारं च चकार सः
वेदसारं करिष्यामि प्रतिज्ञापालनाय च
स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः