संपूज्यैवं प्रकारेण सोऽश्वमेधफलं लभेत् श्रोतुमिच्छामि देवेश लक्ष्मीकांत जगत्पते
विष्णोर्विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारकम् शृणु नारद वक्ष्यामि पापघ्नं पुण्यकारकम्
शिवसंगीतसंमुग्ध श्रीकृष्णांगसमुद्भवाम्
यज्जन्म सृष्टेरादौ च गोलोके रासमंडले
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे 9.12.
कोटियोजन विस्तीर्णा दैर्घ्ये लक्षगुणा ततः
षष्टिलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा
त्रिंशल्लक्षयोजना या दैर्घ्ये पंचगुणा ततः
त्रिंशल्लक्षयोजना या दैर्घ्ये चतुर्गुणा ततः
लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः
लक्षयोजनविस्तीर्णा दैर्घ्ये पंचगुणा ततः
षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः
लक्षयोजनविस्तीर्णा दैर्घ्ये पंचगुणा ततः
सहस्र योजनायामा दैर्घ्ये दशगुणा ततः
दशलक्षयोजना या दैर्घ्ये पंचगुणा ततः 9.12.
सहस्रयोजनायामा दैर्घ्ये शतगुणा ततः
शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः
पाताले भोगवती चैव विस्तीर्णा दशयोजना
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित्
सत्ये या क्षीरवर्णा च त्रेतायामिंदुसन्निभा
जलप्रभा कलौ या च नाऽन्यत्र पृथिवीतले
यत्तोयकणिकास्पर्शे पापिनां ज्ञानसंभवः
इत्येवं कथिता ब्रह्मन्गंगापद्यैकविशतिः
नित्यं यो हि पठेद्भक्त्या संपूज्य च सुरेश्वरीम्
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्स्त्रियम् 9.12.
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पंडितः
शुभं भवेच्च दुःस्वप्ने गगास्नानफलं लभेत् स्तोत्रेणानेन गंगां च स्तुत्वा चैव भगीरथ
जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः
भगीरथेन सा नीता तेन भागीरथी स्मृता
पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि कथं गंगा त्रिपथगा जाता भुवनपावनी