तस्मै ददामि सालोक्यं यावद्वै ब्रह्मणो वयः
तस्मै ददामि सारूप्यमसंख्यं प्राकृतं लयम्
सद्यः प्रयाति गोलोकं मम तुल्यो भवेद् धुवम्
मन्मंत्रोपासकानां तु नित्यं नैवेद्यभोजिनाम्
रत्नेंद्रसार यानेन गोलोकं संप्रयांति च
प्रयांति रत्नयानेन गोलोकं चातिदुर्लभम्
जीवन्मुक्ताश्च ते पूता मद्भक्ते संविधानतः
स्तुहि गंगामिमां भक्त्या पूजां च कुरु सांप्रतम्
कौथुमोक्तेन ध्यानेन स्तोत्रेणापि पुनः पुनः
भगीरथश्च गंगा च सोंऽतर्धानं चकार ह केन ध्यानेन स्तोत्रेण केन पूजाक्रमेण च ।। 9.11.
पूजां चकार नृपतिर्वद वेदविदां वर स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी
संपूज्य देवषट्कं च संयतो भक्तिपूर्वकम्
संपूज्य देवषट्कं च सोऽधिकारी च पूजने
वह्निं शौचाय विष्णुं च लक्ष्म्यर्थं पूजयेन्नरः
संपूज्यैताँल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा
गङ्गोपाख्यानवर्णनम् श्रीनारायण उवाच श्वेतपंकजवर्णाभां गंगां पापप्रणाशिनीम्
कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम्
शरत्पूर्णेंदुशतकमृष्टशोभाकरां पराम्
नारायणप्रियां शांतां तत्सौभाग्यसमन्विताम्
सिंदूरबिंदुललितं सार्धं चन्दनबिंदुभिः
पक्वबिंबविनिंद्याच्छ चार्वोष्ठपुटमुत्तमम्
सुचारुवक्त्रनयनं सकटाक्षं मनोहरम्
बृहच्छ्रोणिं सुकठिनां रंभास्तंभविनिंदिताम्
रत्नपादुक संयुक्तं कुंकुमाक्तं सयावकम्
सुरसिद्धमुनींद्रैश्च दत्तार्घसंयुतं सदा 9.12.
मुक्तिप्रदं मुमुक्षूणां कामिनां सर्वभोगदम्
श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम्
दत्त्वा संपूजयेद्ब्रह्मन्नुपचाराणि षोडश
धूपदीपं च नैवेद्यं तांबूलं शीतलं जलम्
मनोहरं सुतल्पं च देयान्येतानि षोडश