चतुर्मास्यां पौर्णमास्यामनंतं पुण्यमेव च
असंख्यपुण्यफलदमेतेषु स्नानदानकम्
मन्वतराद्यायां तिथौ युगाद्यायां तथैव च
अथाप्यशोकाष्टम्यां च नवम्यां च तथा हरेः
दशहरादशम्यां तु युगाद्यादिसमं फलम्
ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति
चंद्रोपरागसमये सूर्ये दशगुणं ततः
इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः
गंगोवाच तवाज्ञया च राजेंद्र तपसा चैव सांप्रतम्
दास्यंति पापिनो मह्यं पापानि यानि कानि च 9.11.
कतिकालं परिमितं स्थितिर्मे तत्र भारते
ममान्यद्वाछितं यद्यत्सर्वं जानासि सर्ववित्
श्रीभगवानुवाच पतिस्ते द्रवरूपाया लवणोदो भविष्यति
स ममांश स्वरूपश्च त्वं च लक्ष्मीस्वरूपिणी
यावत्यः संति नद्यश्च भारत्याद्याश्च भारते
अद्यप्रभृति देवेशि कलेः पंचसहस्रकम्
नित्यं त्वमब्धिना सार्थं करिष्यसि रहो रतिम्
त्वां स्तोष्यन्ति च स्तोत्रेण भगीरथकृतेन च
कण्वशाखोक्त ध्यानेन ध्यात्वा त्वां पूजयिष्यति
गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि 9.11.
सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति
पापिनां तु सहस्राणां शवस्पर्शेन यत्त्वयि
तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनम्
तत्तु तीर्थं भवेत्सद्यो यत्र तद्गुणकीर्तनम्
रेणुप्रमाणवर्षं च देवेलोके वसेद् धुवम्
समुत्सृजंति प्राणांश्च ते गच्छन्ति हरेः पदम्
लयं प्राकृतिकं ते च द्रक्ष्यंति चाप्य संख्यकम्
प्रयाति स च वैकुण्ठं यावदह्नः स्थितिस्त्वयि
तस्मै ददामि सारूप्यं करोमि तं च पार्षदम्
तस्मै ददामि सालोक्यं करोमि तं च पार्षदम् 9.11.