गङ्गोपाख्यानवर्णनम् नारद उवाच
भारते भारतीशापात्सा जगाम सुरेश्वरी
कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा
श्रीनारायण उवाच तस्य भार्या च वैदर्भी शैब्या च द्वे मनोहरे
तत्पत्न्यामेकपुत्रश्च बभूव सुमनोहरः
अन्या चाऽऽराधयामास शंकरं पुत्र कामुकी
गते शताब्दे पूर्णे च मांसपिंडं सुषाव सा
शंभुर्ब्राह्मणरूपेण तत्समीपं जगाम ह
सर्वे बभूवुः पुत्राश्च महाबलपराक्रमाः
कपिलस्य मुनेः शापाद्बभूवुर्भस्मसाच्च ते 9.11.
तपश्चकाराऽसमंजो गंगानयनकारणात्
अंशुमांस्तस्य तनयो गंगानयनकारणात्
भगीरथस्तस्य पुत्रो महाभागवतः सुधीः
तपः कृत्वा लक्षवर्षं गंगानयनकारणात्
द्विभुजं मुरलीहस्तं किशोरगोपवेषिणम्
स्वेच्छामयं परं ब्रह्म परिपूर्णतमं प्रभुम्
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम्
वह्निशुद्धांशुकाधानं रलभूषणभूषितम्
लीलया च वरं प्राप वांछितं वंशता रणम्
श्रीभगवानुवाच सगरस्य सुतान्सर्वान्वृतान्कुरु ममाज्ञया ।।9.11.
त्वत्स्पर्शवायुनाः पूता यास्यंति मम मंदिरम्
मत्पार्षदा भविष्यंति सर्व कालं निरामयाः
कोटिजन्मार्जितं पापं भारते यत्कृतं नृभिः
स्पर्शनाद्दर्शनाद्देव्याः पुण्यं दशगुणं ततः
शतकोटिजन्मपापं नश्यतीति श्रुतौ श्रुतम्
जन्मसंख्यार्जितान्येव कामतोऽपि कृतानि च
पुण्याहस्नानतः पुण्यं वेदा नैव वदंति च
ब्रह्मविष्णुशिवाद्याश्च सर्वं नैव वदंति च
पुण्यं दशगुणं चैव मौसलस्नानतः परम्
अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने 9.11.