पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् नारद उवाच भूमिदानकृतं पुण्यं पापं तद्धरणेन च । परभूहरणात्पापं परकूपे खनने तथा
अम्बुवाच्यां भूखनने वीर्यस्य त्याग एव च । दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्नतः
अन्यद्वा पृथिवीजन्यं पापं यत्पृच्छते परम् । यदस्ति तत्प्रतीकारं वद वेदविदांवर
श्रीनारायण उवाच वितस्तिमात्रभूमिं च यो ददाति च भारते । सन्ध्यापूताय विप्राय स याति शिवमन्दिरम्
भूमिं च सर्वसस्याढ्यां ब्राह्मणाय ददाति च । भूमिरेणुप्रमाणाब्दमन्ते विष्णुपदे स्थितिः
ग्रामं भूमिं च धान्यं च ब्राह्मणाय ददाति यः । सर्वपापाद्विनिर्मुक्तौ चोभौ देवीपुरःस्थितौ
भूमिदानं च तत्काले यः साधुश्चानुमोदते । स च प्रयाति वैकुण्ठे मित्रगोत्रसमन्वितः
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । स तिष्ठति कालसूत्रे यावच्चन्द्रदिवाकरौ
तत्युत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः । पुत्रहीनो दरिद्रश्च घोरं याति च रौरवम्
गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति च । दिव्यं वर्षशतं चैव कुम्भीपाके च तिष्ठति
गोष्ठं तडागं निष्कृष्य मार्गे सस्यं ददाति यः । स तिष्ठत्यसिपत्रे च यावदिन्द्राश्चतुर्दश
पञ्चपिण्डाननुद्धृत्य परकूपे च स्नाति यः । प्राप्नोति नरकं चैव स्नानं निष्फलमेव च
कामी भूमौ च रहसि वीर्यत्यागं करोति यः । भूमिरेणुप्रमाणं च वर्षं तिष्ठति रौरवे
अम्बुवाच्यां भूकरणं यः करोति च मानवः । स याति कृमिदंशं च स्थितिस्तत्र चतुर्युगम्
परकीये लुप्तकूपे कूपं मूढः करोति यः । पुष्करिण्यां च लुप्तायां पुष्करिणीं ददाति यः
सर्वं फलं परस्यैव तप्तकुण्डं व्रजेच्च सः । तत्र तिष्ठति सन्तप्तो यावदिन्द्राश्चतुर्दश
परकीये तडागे च पङ्कमुद्धृत्य चोन्मृजेत् । रेणुप्रमाणवर्षं च ब्रह्मलोके वसेन्नरः
पिण्डं पित्रे भूमिभर्तुर्न प्रदाय च मानवः । श्राद्धं करोति यो मूढो नरकं याति निश्चितम्
भूमौ दीपं योऽर्पयति स चान्धः सप्तजन्मसु । भूमौ शङ्खं च संस्थाप्य कुष्ठं जन्मान्तरे लभेत्
मुक्तां माणिक्यहीरौ च सुवर्णं च मणिं तथा । पञ्च संस्थापयेद्भूमौ स चान्धः सप्तजन्मसु
शिवलिङ्गं शिवामर्चां यश्चार्पयति भूतले । शतमन्वन्तरं यावत्कृमिभक्षः स तिष्ठति
शङ्खं यन्त्रं शिलातोयं पुष्पं च तुलसीदलम् । यश्चार्पयति भूमौ च स तिष्ठेन्नरके ध्रुवम्
जपमालां पुष्पमालां कर्पूरं रोचनं तथा । यो मूढश्चार्पयेद्भूमौ स याति नरकं ध्रुवम्
भूमौ चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम् । संस्थाप्य भूमौ नरके वसेन्मन्वन्तरावधि
पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेन्नरः । न भवेद्विप्रयोनौ च तस्य जन्मान्तरे जनिः
ब्रह्महत्यासमं पापमिह वै लभते ध्रुवम् । ग्रन्धियुक्तं यज्ञसूत्रं पूज्यं च सर्ववर्णकैः
यज्ञं कृत्वा तु यो भूमिं क्षीरेण न हि सिञ्चति । स याति तप्तभूमिं च सन्तप्तः सप्तजन्मसु
भूकम्पे ग्रहणे यो हि करोति खननं भुवः । जन्मान्तरे महापापो ह्यङ्गहीनो भवेद् ध्रुवम्
भवनं यत्र सर्वेषां भूमिस्तेन प्रकीर्तिता । काश्यपी कश्यपस्येयमचला स्थिररूपतः
विश्वम्भरा धारणाच्चानन्तानन्तस्वरूपतः । पृथिवी पृथुकन्यात्वाद्विस्तृतत्वान्महामुने