पूजाञ्चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः । कण्वशाखोक्तध्यानेन तुष्टुवुश्च स्तवेन ते
ददुर्मूलेन मन्त्रेण नैवेद्यादिकमेव च । संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह
नारद उवाच किं ध्यानं स्तवनं तस्या मूलमन्त्रं च किं वद । गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम
श्रीनारायण उवाच आदौ च पृथिवी देवी वराहेण च पूजिता । ततो हि ब्रह्मणा पश्चामृजिता पृथिवी तदा
ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्मानवादिभिः । ध्यानं च स्तवनं मन्त्रं शृणु वक्ष्यामि नारद
ॐ ह्रीं श्रीं क्लीं वसुधायै स्वाहेत्यनेन मन्त्रेण विष्णुना पूजिता पुरा । श्वेतपङ्कजवर्णाभां शरच्चन्द्रनिभाननाम्
चन्दनोत्क्षिप्तसर्वाङ्गीं रत्नभूषणभूषिताम् । रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम्
वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे । ध्यानेनानेन सा देवी सर्वैश्च पूजिताभवत्
स्तवनं शृणु विप्रेन्द्र कण्वशाखोक्तमेव च । श्रीनारायण उवाच जये जये जलाधारे जलशीले जलप्रदे
यज्ञसूकरजाये त्वं जयं देहि जयावहे । मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे
मङ्गलार्थं मङ्गलेशे मङ्गलं देहि मे भवे । सर्वाधारे च सर्वज्ञे सर्वशक्तिसमन्विते
सर्वकामप्रदे देवि सर्वेष्टं देहि मे भवे । पुण्यस्वरूपे पुण्यानां बीजरूपे सनातनि
पुण्याश्रये पुण्यवतामालये पुण्यदे भवे । सर्वसस्यालये सर्वसस्याढ्ये सर्वसस्यदे
सर्वसस्यहरे काले सर्वसस्यात्मिके भवे । भूमे भूमिपसर्वस्वे भूमिपालपरायणे
भूमिपानां सुखकरे भूमिं देहि च भूमिदे । इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत्
कोटिजन्मसु स भवेद् बलवान्भूमिपेश्वरः । भूमिदानकृतं पुण्यं लभ्यते पठनाज्जनैः
भूमिदानहरात्पापान्मुच्यते नात्र संशयः । अम्बुवाचीभूकरणपापात्स मुच्यते ध्रुवम्
अन्यकूपे कूपखननपापात्स मुच्यते ध्रुवम् । परभूमिहरात्पापान्मुच्यते नात्र संशयः
भूमौ वीर्यत्यागपापाद्भूमौ दीपादिस्थापनात् । पापेन मुच्यते सोऽपि स्तोत्रस्य पठनान्मुने
अश्वमेधशतं पुण्यं लभते नात्र संशयः । भूमिदेव्या महास्तोत्रं सर्वकल्याणकारकम्
पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् नारद उवाच भूमिदानकृतं पुण्यं पापं तद्धरणेन च । परभूहरणात्पापं परकूपे खनने तथा
अम्बुवाच्यां भूखनने वीर्यस्य त्याग एव च । दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्नतः
अन्यद्वा पृथिवीजन्यं पापं यत्पृच्छते परम् । यदस्ति तत्प्रतीकारं वद वेदविदांवर
श्रीनारायण उवाच वितस्तिमात्रभूमिं च यो ददाति च भारते । सन्ध्यापूताय विप्राय स याति शिवमन्दिरम्
भूमिं च सर्वसस्याढ्यां ब्राह्मणाय ददाति च । भूमिरेणुप्रमाणाब्दमन्ते विष्णुपदे स्थितिः
ग्रामं भूमिं च धान्यं च ब्राह्मणाय ददाति यः । सर्वपापाद्विनिर्मुक्तौ चोभौ देवीपुरःस्थितौ
भूमिदानं च तत्काले यः साधुश्चानुमोदते । स च प्रयाति वैकुण्ठे मित्रगोत्रसमन्वितः
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । स तिष्ठति कालसूत्रे यावच्चन्द्रदिवाकरौ
तत्युत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः । पुत्रहीनो दरिद्रश्च घोरं याति च रौरवम्
गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति च । दिव्यं वर्षशतं चैव कुम्भीपाके च तिष्ठति