शुक उवाच व्यासेनोक्तो महाराज कुरु दारपरिग्रहम् । सर्वेषामाश्रमाणां च गृहस्थाश्रम उत्तमः
मया नाङ्गीकृतं वाक्यं मत्त्वा बन्धं गुरोरपि । न बन्धोऽस्तीति तेनोक्तो नाहं तत्कृतवान्पुनः
इति सन्दिग्धमनसं मत्वा स मुनिसत्तमः । उवाच वचनं तथ्यं मिथिलां गच्छ मा शुचः
याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः । विदेहो लोकविदितः पाति राज्यमकण्टकम्
कुर्वन् राज्यं तथा राजा मायापाशैर्न बध्यते । त्वं बिभेषि कथं पुत्र वनवृत्तिः परन्तप
पश्य तं नृपशार्दूलं त्यज मोहं मनोगतम् । कुरु दारान्महाभाग पृच्छ वा भूपतिं च तम्
सन्देहं ते मनोजातं कथयिष्यति पार्थिवः । तच्छ्रुत्वा वचनं तस्य मामेहि तरसा सुत
सम्प्राप्तोऽहं महाराज त्वत्पुरे च तदाज्ञया । मोक्षकामोऽस्मि राजेन्द्र ब्रूहि कृत्यं ममानघ
तपस्तीर्थव्रतेज्याश्च स्वाध्यायस्तीर्थसेवनम् । ज्ञानं वा वद राजेन्द्र मोक्षं प्रति च कारणम्
जनक उवाच शृणु विप्रेण कर्तव्यं मोक्षमार्गाश्रितेन यत् । उपनीतो वसेदादौ वेदाभ्यासाय वै गुरौ
अधीत्य वेदवेदान्तान्दत्त्वा च गुरुदक्षिणाम् । समावृत्तस्तु गार्हस्थ्ये सदारो निवसेन्मुनिः
न्यायवृत्तिस्तु सन्तोषी निराशी गतकल्मषः । अग्निहोत्रादिकर्माणि कुर्वाणः सत्यवाक्शुचिः
पुत्रं पौत्रं समासाद्य वानप्रस्थाश्रमे वसेत् । तपसा षड्रिपूञ्जित्वा भार्यां पुत्रे निवेश्य च
सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् । वसेत्तुर्याश्रमे श्रान्तः शुद्धे वैराग्यसम्भवे
विरक्तस्याधिकारोऽस्ति संन्यासे नान्यथा क्वचित् । वेदवाक्यमिदं तथ्यं नान्यथेति मतिर्मम
शुकाष्टचत्वारिशद्वै संस्कारा वेदबोधिताः । चत्वारिंशद्गृहस्थस्य प्रोक्तास्तत्र महात्मभिः
अष्टौ च मुक्तिकामस्य प्रोक्ताः शमदमादयः । आश्रमादाश्रमं गच्छेदिति शिष्टानुशासनम्
शुक उवाच उत्पन्ने हृदि वैराग्ये ज्ञानविज्ञानसम्भवे । अवश्यमेव वस्तव्यमाश्रमेषु वनेषु वा
जनक उवाच इन्द्रियाणि बलिष्ठानि न नियुक्तानि मानद । अपक्वस्य प्रकुर्वन्ति विकारांस्ताननेकशः
भोजनेच्छां सुखेच्छां च शय्येच्छामात्मजस्य च । यती भूत्वा कथं कुर्याद्विकारे समुपस्थिते
दुर्जरं वासनाजालं न शान्तिमुपयाति वै । अतस्तच्छमनार्थाय क्रमेण च परित्यजेत्
ऊर्ध्वं सुप्तः पतत्येव न शयानः पतत्यधः । परिव्रज्य परिभ्रष्टो न मार्गं लभते पुनः
यथा पिपीलिका मूलाच्छाखायामधिरोहति । शनैः शनैः फलं याति सुखेन पदगामिनी
विहङ्गस्तरसा याति विघ्नशङ्कामुदस्य वै । श्रान्तो भवति विश्रम्य सुखं याति पिपीलिका
मनस्तु प्रबलं काममजेयमकृतात्मभिः । अतः क्रमेण जेतव्यमाश्रमानुक्रमेण च
गृहस्थाश्रमसंस्थोऽपि शान्तः सुमतिरात्मवान् । न च हृष्येन्न च तपेल्लाभालाभे समो भवेत्
विहतं कर्म कुर्वाणस्त्यजंश्चिन्तान्वितं च यत् । आत्मलाभेन सन्तुष्टो मुच्यते नात्र संशयः
पश्याहं राज्यसंस्थोऽपि जीवन्मुक्तो यथानघ । विचरामि यथाकामं न मे किञ्चित्प्रजायते
भुञ्जानो विविधान्भोगान्कुर्वन्कार्याण्यनेकशः । भविष्यामि यथाहं त्वं तथा मुक्तो भवानघ
कथ्यते खलु यद्दृश्यमदृश्यं बध्यते कुतः । दृश्यानि पञ्चभूतानि गुणास्तेषां तथा पुनः