तत्पुत्रो मङ्गलो ज्ञेयो घटेशो मङ्गलात्मजः । नारद उवाच पूजिता केन रुपेण वाराहे च सुरैर्मही
वाराहे चैव वाराही सर्वैः सर्वाश्रया सती । मूलप्रकृतिसम्भूता पञ्चीकरणमार्गतः
तस्याः पूजाविधानं चाप्यधश्चोर्ध्वमनेकशः । मङ्गलं मङ्गलस्यापि जन्म वासं वद प्रभो
श्रीनारायण उवाच वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा । उद्दधार महीं हत्वा हिरण्याक्षं रसातलम्
जले तां स्थापयामास पद्मपत्रं यथा हृदे । तत्रैव निर्ममे ब्रह्मा विश्वं सर्वं मनोहरम्
दृष्ट्वा तदधिदेवीं च सकामां कामुको हरिः । वराहरूपी भगवान् कोटिसूर्यसमप्रभः
कृत्वा रतिकलां सर्वां मूर्तिं च सुमनोहराम् । क्रीडाञ्चकार रहसि दिव्यवर्षमहर्निशम्
सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी । विदग्धाया विदग्धेन सङ्गमोऽतिसुखप्रदः
विष्णुस्तदङ्गसंश्लेषाद् बुबुधे न दिवानिशम् । वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम्
पूर्वरूपं वराहं च दधार स च लीलया । पूजाञ्चकार तां देवीं ध्यात्वा च धरणीं सतीम्
धूपैर्दीपैश्च नैवेद्यैः सिन्दूरैरनुलेपनैः । वस्त्रैः पुष्पैश्च बलिभिः सम्पूज्योवाच तां हरिः
श्रीभगवानुवाच सर्वाधारा भव शुभे सर्वैः सम्पूजिता सुखम् । मुनिभिर्मनुभिर्देवैः सिद्धैश्च दानवादिभिः
अम्बुवाचीत्यागदिने गृहारम्भे प्रवेशने । वापीतडागारम्भे च गृहे च कृषिकर्मणि
तव पूजां करिष्यन्ति मद्वरेण सुरादयः । मूढा ये न करिष्यन्ति यास्यन्ति नरकं च ते
वसुधोवाच वहामि सर्वं वाराहरूपेणाहं तवाज्ञया । लीलामात्रेण भगवन् विश्वं च सचराचरम्
मुक्तां शुक्तिं हरेरर्चां शिवलिङ्गं शिवां तथा । शङ्खं प्रदीपं यन्त्रं च माणिक्यं हीरकं तथा
यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् । जपमालां पुष्पमालां कर्पूरं च सुवर्णकम्
गोरोचनं चन्दनं च शालग्रामजलं तथा । एतान्वोडुमशक्ताहं क्लिष्टा च भगवञ्छृणु
श्रीभगवानुवाच द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि । यास्यन्ति कालसूत्रं ते दिव्यं वर्षशतं त्वयि
इत्येवमुक्त्वा भगवान् विरराम च नारद । बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः
पूजाञ्चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः । कण्वशाखोक्तध्यानेन तुष्टुवुश्च स्तवेन ते
ददुर्मूलेन मन्त्रेण नैवेद्यादिकमेव च । संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह
नारद उवाच किं ध्यानं स्तवनं तस्या मूलमन्त्रं च किं वद । गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम
श्रीनारायण उवाच आदौ च पृथिवी देवी वराहेण च पूजिता । ततो हि ब्रह्मणा पश्चामृजिता पृथिवी तदा
ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्मानवादिभिः । ध्यानं च स्तवनं मन्त्रं शृणु वक्ष्यामि नारद
ॐ ह्रीं श्रीं क्लीं वसुधायै स्वाहेत्यनेन मन्त्रेण विष्णुना पूजिता पुरा । श्वेतपङ्कजवर्णाभां शरच्चन्द्रनिभाननाम्
चन्दनोत्क्षिप्तसर्वाङ्गीं रत्नभूषणभूषिताम् । रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम्
वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे । ध्यानेनानेन सा देवी सर्वैश्च पूजिताभवत्
स्तवनं शृणु विप्रेन्द्र कण्वशाखोक्तमेव च । श्रीनारायण उवाच जये जये जलाधारे जलशीले जलप्रदे
यज्ञसूकरजाये त्वं जयं देहि जयावहे । मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे