कथं बभूव सा धन्या मान्या सर्वाश्रया जया । तस्याश्च जन्मकथनं वद मङ्गलकारणम्
श्रीनारायण उवाच सर्वादिसृष्टौ सर्वेषां जन्म देव्या इति श्रुतिः । आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च
श्रूयतां वसुधाजन्म सर्वमङ्गलकारणम् । विघ्ननिघ्नकरं पापनाशनं पुण्यवर्धनम्
अहो केचिद्वदन्तीति मधुकैटभमेदसा । बभूव वसुधा धन्या तद्विरुद्धमतः शृणु
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा । आवां वध्यौ न यत्रोर्वी पाथसा संवृतेति च
तयोर्जीवनकाले न प्रत्यक्षा साभवत्स्फुटम् । ततो बभूव मेदश्च मरणानन्तरं तयोः
मेदिनीति च विख्यातेत्युक्तमेतन्मतं शृणु । जलधौता कृता पूर्वं वर्धिता मेदसा यतः
कथयामि ते तज्जन्म सार्थकं सर्वमङ्गलम् । पुरा श्रुतं यच्छ्रुत्युक्तं धर्मवक्त्राच्च पुष्करे
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् । मनो बभूव कालेन सर्वाङ्गव्यापकं ध्रुवम्
तच्च प्रविष्टं सर्वेषां तल्लोम्नां विवरेषु च । कालेन महता पश्चाद् बभूव वसुधा मुने
प्रत्येकं प्रतिलोम्नां च कूपेषु संस्थिता सदा । आविर्भूता तिरोभूता सजला च पुनः पुनः
आविर्भूता सृष्टिकाले तज्जलोपर्युपस्थिता । प्रलये च तिरोभूता जलस्याभ्यन्तरे स्थिता
प्रतिविश्वेषु वसुधा शैलकाननसंयुता । सप्तसागरसंयुक्ता सप्तद्वीपसमन्विता
हेमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता । ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदाज्ञया
पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता । काञ्चनीभूमिसंयुक्ता सप्तस्वर्गसमन्विता
पातालसप्तं तदधस्तदूर्ध्वं ब्रह्मलोकतः । ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै
एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि च । नश्वराणि च विश्वानि सर्वाणि कृत्रिमाणि वै
प्रलये प्राकृते चैव ब्रह्मणश्च निपातने । महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना
नित्यौ च स्थितिप्रलयौ काष्ठाकालेश्वरैः सह । नित्याधिष्ठातृदेवी सा वाराहे पूजिता सुरैः
मुनिभिर्मनुभिर्विप्रैर्गन्धर्वादिभिरेव च । विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता
तत्पुत्रो मङ्गलो ज्ञेयो घटेशो मङ्गलात्मजः । नारद उवाच पूजिता केन रुपेण वाराहे च सुरैर्मही
वाराहे चैव वाराही सर्वैः सर्वाश्रया सती । मूलप्रकृतिसम्भूता पञ्चीकरणमार्गतः
तस्याः पूजाविधानं चाप्यधश्चोर्ध्वमनेकशः । मङ्गलं मङ्गलस्यापि जन्म वासं वद प्रभो
श्रीनारायण उवाच वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा । उद्दधार महीं हत्वा हिरण्याक्षं रसातलम्
जले तां स्थापयामास पद्मपत्रं यथा हृदे । तत्रैव निर्ममे ब्रह्मा विश्वं सर्वं मनोहरम्
दृष्ट्वा तदधिदेवीं च सकामां कामुको हरिः । वराहरूपी भगवान् कोटिसूर्यसमप्रभः
कृत्वा रतिकलां सर्वां मूर्तिं च सुमनोहराम् । क्रीडाञ्चकार रहसि दिव्यवर्षमहर्निशम्
सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी । विदग्धाया विदग्धेन सङ्गमोऽतिसुखप्रदः
विष्णुस्तदङ्गसंश्लेषाद् बुबुधे न दिवानिशम् । वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम्
पूर्वरूपं वराहं च दधार स च लीलया । पूजाञ्चकार तां देवीं ध्यात्वा च धरणीं सतीम्