कृष्णवक्षःस्थलस्थानं पत्नीत्वे प्राप सेवया । तपश्चकार सा पूर्वं शतशृङ्गे च पर्वते
दिव्यवर्षसहस्रं च पतिं प्राप्त्यर्थमेव च । जाते शक्तिप्रसादे तु दृष्ट्वा चन्द्रकलोपमाम्
कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः । वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम्
मम वक्षःस्थले तिष्ठ मम भक्ता च शाश्वती । सौभाग्येन च मानेन प्रेम्णाथो गौरवेण च
त्वं मे श्रेष्ठा च ज्येष्ठा च प्रेयसी सर्वयोषिताम् । वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया
सततं तव साध्योऽहं वश्यश्च प्राणवल्लभे । इत्युक्त्वा च जगन्नाथश्चकार ललनां ततः
सपत्नीरहितां तां च चकार प्राणवल्लभाम् । अन्या या याश्च ता देव्यः पूजिताः शक्तिसेवया
तपस्तु यादृशं यासां तादृक्तादृक्फलं मुने । दिव्यवर्षसहस्रं च तपस्तप्त्वा हिमाचले
दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह । सरस्वती तपस्तप्त्वा पर्वते गन्धमादने
लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा । लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे
सर्वसम्पत्प्रदात्री च जाता देवीनिषेवणात् । सावित्री मलये तप्त्वा पूज्या वन्द्या बभूव सा
षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम् । शतमन्वन्तरं तप्तं शङ्करेण पुरा विभो
शतमन्वन्तरं चेदं ब्रह्मा शक्तिं जजाप ह । शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह
दशमन्वन्तरं तप्त्वा श्रीकृष्णः परमं तपः । गोलोकं प्राप्तवान्दिव्यं मोदतेऽद्यापि यत्र हि
दशमन्वन्तरं धर्मस्तप्त्वा वै भक्तिसंयुतः । सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः
एवं देव्याश्च तपसा सर्वे देवाश्च पूजिताः । मुनयो मनवो भूपा ब्राह्मणाश्चैव पूजिताः
एवं ते कथितं सर्वं पुराणं सयथागमम् । गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि
भूमिस्तोत्रवर्णनम् नारद उवाच देव्या निमेषमात्रेण ब्रह्मणः पात एव च । तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः
प्रलये प्राकृते चोक्ता तत्रादृष्टा वसुन्धरा । जलप्लुतानि विश्वानि सर्वे लीनाः परात्मनि
वसुन्धरा तिरोभूता कुत्र वा सा च तिष्ठति । सृष्टेर्विधानसमये साविर्भूता कथं पुनः
कथं बभूव सा धन्या मान्या सर्वाश्रया जया । तस्याश्च जन्मकथनं वद मङ्गलकारणम्
श्रीनारायण उवाच सर्वादिसृष्टौ सर्वेषां जन्म देव्या इति श्रुतिः । आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च
श्रूयतां वसुधाजन्म सर्वमङ्गलकारणम् । विघ्ननिघ्नकरं पापनाशनं पुण्यवर्धनम्
अहो केचिद्वदन्तीति मधुकैटभमेदसा । बभूव वसुधा धन्या तद्विरुद्धमतः शृणु
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा । आवां वध्यौ न यत्रोर्वी पाथसा संवृतेति च
तयोर्जीवनकाले न प्रत्यक्षा साभवत्स्फुटम् । ततो बभूव मेदश्च मरणानन्तरं तयोः
मेदिनीति च विख्यातेत्युक्तमेतन्मतं शृणु । जलधौता कृता पूर्वं वर्धिता मेदसा यतः
कथयामि ते तज्जन्म सार्थकं सर्वमङ्गलम् । पुरा श्रुतं यच्छ्रुत्युक्तं धर्मवक्त्राच्च पुष्करे
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् । मनो बभूव कालेन सर्वाङ्गव्यापकं ध्रुवम्
तच्च प्रविष्टं सर्वेषां तल्लोम्नां विवरेषु च । कालेन महता पश्चाद् बभूव वसुधा मुने