तत्रैव प्रकृतिर्लीना तत्र प्राकृतिको लयः । लये प्राकृतिके जाते पाते च ब्रह्मणो मुने
निमेषमात्रं कालश्च श्रीदेव्याः प्रोच्यते मुने । एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च
निमेषान्तरकालेन पुनः सृष्टिक्रमेण च । एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा
कति कल्पा गतायाताः संख्यां जानाति कः पुमान् । सृष्टीनां च लयानां च ब्रह्माण्डानां च नारद
ब्रह्मादीनां च ब्रह्माण्डे संख्यां जानाति कः पुमान् । ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः
सर्वेषां परमात्मा च सच्चिदानन्दरूपधृक् । ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट्
तस्यांशश्च विराट् क्षुद्रः सैवेयं प्रकृतिः परा । तस्याः सकाशात्सञ्जातोऽप्यर्धनारीश्वरस्ततः
सैव कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः । चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम्
ब्रह्मादितृणपर्यन्तं सर्वं प्राकृतिकं भवेत् । यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च
एवंविधं सृष्टिहेतुं सत्यं नित्यं सनातनम् । स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम्
निरुपाधि निराकारं भक्तानुग्रहकातरम् । करोति ब्रह्मा ब्रह्माण्डं यज्ज्ञानात्कमलोद्भवः
शिवो मृत्युज्जयश्चैव संहर्ता सर्वसत्त्ववित् । यज्ज्ञानाद्यस्य तपसा सर्वेशस्तु तपो महान्
महाविभूतियुक्तश्च सर्वज्ञः सर्वदर्शनः । सर्वव्यापी सर्वपाता प्रदाता सर्वसम्पदाम्
विष्णुः सर्वेश्वरः श्रीमान् यद्भक्त्या यस्य सेवया । महामाया च प्रकृतिः सर्वशक्तिमयीश्वरी
सैव प्रोक्ता भगवती सच्चिदानन्दरूपिणी । यज्ज्ञानाद्यस्य तपसा यद्भक्त्या यस्य सेवया
सावित्री देवमाता च वेदाधिष्ठातृदेवता । पूज्या द्विजानां वेदज्ञा यज्ज्ञानाद्यस्य सेवया
सर्वविद्याधिदेवी सा पूज्या च विदुषां परा । यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता
सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदायिनी । सर्वेश्वरी सर्ववन्द्या सर्वेषां पुत्रदायिनी
सर्वस्तुता च सर्वज्ञा सर्वदुर्गार्तिनाशिनी । कृष्णवामांशसम्भूता कृष्णप्राणाधिदेवता
कृष्णप्राणाधिका प्रेम्णा राधिका शक्तिसेवया । सर्वाधिकं च रूपं च सौभाग्यं मानगौरवे
कृष्णवक्षःस्थलस्थानं पत्नीत्वे प्राप सेवया । तपश्चकार सा पूर्वं शतशृङ्गे च पर्वते
दिव्यवर्षसहस्रं च पतिं प्राप्त्यर्थमेव च । जाते शक्तिप्रसादे तु दृष्ट्वा चन्द्रकलोपमाम्
कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः । वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम्
मम वक्षःस्थले तिष्ठ मम भक्ता च शाश्वती । सौभाग्येन च मानेन प्रेम्णाथो गौरवेण च
त्वं मे श्रेष्ठा च ज्येष्ठा च प्रेयसी सर्वयोषिताम् । वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया
सततं तव साध्योऽहं वश्यश्च प्राणवल्लभे । इत्युक्त्वा च जगन्नाथश्चकार ललनां ततः
सपत्नीरहितां तां च चकार प्राणवल्लभाम् । अन्या या याश्च ता देव्यः पूजिताः शक्तिसेवया
तपस्तु यादृशं यासां तादृक्तादृक्फलं मुने । दिव्यवर्षसहस्रं च तपस्तप्त्वा हिमाचले
दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह । सरस्वती तपस्तप्त्वा पर्वते गन्धमादने
लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा । लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे