भगिनीगामिनः केचित्सपत्नीमातृगामिनः । भ्रातृजायागामिनश्च भविष्यन्ति कलौ युगे
अगम्यागमनं चैव करिष्यन्ति गृहे गृहे । मातृयोनिं परित्यज्य विहरिष्यन्ति सर्वतः
पत्नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे । प्रजानां चैव ग्रामाणां वस्तुनां च विशेषतः
अलीकवादिनः सर्वे सर्वे चौराश्च लम्पटाः । परस्परं हिंसकाश्च सर्वे च नरघातिनः
ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः । लाक्षा लोहरसानां च व्यापारं लवणस्य च
वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः । शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः
पञ्चयज्ञविहीनाश्च कुहूरात्रौ च भोजिनः । यज्ञसूत्रविहीनाश्च संध्याशौचविहीनकाः
पुंश्चली वार्धुषाजीवा कुट्टनी च रजस्वला । विप्राणां रन्धनागारे भविष्यति च पाचिका
अन्नानां नियमो नास्ति योनीनां च विशेषतः । आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे
एवं कलौ सम्प्रवृत्ते सर्वं म्लेच्छमयं भवेत् । हस्तप्रमाणे वृक्षे च अङ्गुष्ठे चैव मानवे
विप्रस्य विष्णुयशसः पुत्रः कल्किर्भविष्यति । नारायणकलांशश्च भगवान् बलिनां वरः
दीर्घेण करवालेन दीर्घघोटकवाहनः । म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति
निर्म्लेच्छां वसुधां कृत्वा चान्तर्धानं करिष्यति । अराजका च वसुधा दस्युग्रस्ता भविष्यति
स्थूलाप्रमाणा षड्रात्रं वर्षधाराऽऽप्लुता मही । लोकशून्या वृक्षशून्या गृहशून्या भविष्यति
ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने । प्राप्नोति शुष्कतां पृथ्वी समा तेषां च तेजसा
कलौ गते च दुर्धर्षे प्रवृत्ते च कृते युगे । तपःसत्त्वसमायुक्तो धर्मः पूर्णो भविष्यति
तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि । पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे
राजानः क्षत्रियाः सर्वे विप्रभक्ता मनस्विनः । प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा
वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः । शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः
विप्रक्षत्रविशां वंशा देवीभक्तिपरायणाः । देवीमन्त्ररताः सर्वे देवीध्यानपरायणाः
श्रुतिस्मृतिपुराणज्ञाः पुमांस ऋतुगामिनः । लेशो नास्ति ह्यधर्मस्य पूर्णो धर्मः कृते युगे
धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे ततः । कलौ वृत्ते चैकपाच्च सर्वलुप्तिस्ततः परम्
वाराः सप्त तथा विप्र तिथयः षोडश स्मृताः । तथा द्वादश मासाश्च ऋतवश्च षडेव च
द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् । चतुर्भिः प्रहरै रात्रिर्मासस्त्रिंशद्दिनैस्तथा
वर्षं पञ्चविधं ज्ञेयं कालसंख्याविधिक्रमे । यथा चायान्ति यान्त्येव यथा युगचतुष्टयम्
वर्षे पूर्णे नराणां च देवानां च दिवानिशम् । शतत्रये षष्ठ्यधिके नराणां च युगे गते
देवानां च युगं ज्ञेयं कालसंख्याविदां मतम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः
मन्वन्तरसमं ज्ञेयमायुष्यञ्च शचीपतेः । अष्टाविंशतिमे चेन्द्रे गते ब्रह्मदिवानिशम्
अष्टोत्तरशते वर्षे गते पातश्च ब्रह्मणः । प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा
जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः । ऋषयो ज्ञानिनः सर्वे लीनाः सत्ये चिदात्मनि