म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च । म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय च
ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ । सूपकारा धावकाश्च वृषवाहाश्च सर्वशः
सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी । फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः
क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् । दम्पती प्रीतिहीनौ च गृहिणः सत्यवर्जिताः
प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः । जलहीना महानद्यो दीर्घिकाकन्दरादयः
धर्महीना पुण्यहीना वर्णाश्चत्वार एव च । लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम्
कुत्सिता विकृताकारा नरा नार्यश्च बालकाः । कुवार्ता कुत्सितः शब्दो भविष्यति ततः परम्
केचिद्ग्रामाश्च नगरा नरशून्या भयानकाः । केचित्स्वल्पकुटीरेण नरेण च समन्विताः
अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च । अरण्यवासिनः सर्वे जनाश्च करपीडिताः
सस्यानि च भविष्यन्ति तडागेषु नदीषु च । प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे
अलीकवादिनो धूर्ताः शठाश्चासत्यवादिनः । प्रकृष्टानि च क्षेत्राणि सस्यहीनानि नारद
हीनाः प्रकृष्टा धनिनो देवभक्ताश्च नास्तिकाः । हिंसकाश्च दयाहीना पौराश्च नरघातिनः
वामना व्याधियुक्ताश्च नरा नार्यश्च सर्वतः । स्वल्पायुषो गदायुक्ता यौवनै रहिताः कलौ
पलिताः षोडशे वर्षे महावृद्धाश्च विंशतौ । अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी
वत्सरान्तप्रसूता स्त्री षोडशे च जरान्विता । पतिपुत्रवती काचित्सर्वा वन्ध्याः कलौ युगे
कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च । मातृजायावधूनां च जारोपेतान्नभक्षकाः
कन्यानां भगिनीनां वा जारोपात्तानजीविनः । हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे
स्वयमुत्सृज्य दानं च कीर्तिवर्धनहेतवे । ततः पश्चात्स्वदानं च स्वयमुल्लङ्घयिष्यति
देववृत्तिं ब्रह्मवत्तिं वृत्तिं गुरुकुलस्य च । स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति
कन्यकागामिनः केचित्केचिच्च श्वश्रुगामिनः । केचिद्वधूगामिनश्च केचिद्वै सर्वगामिनः
भगिनीगामिनः केचित्सपत्नीमातृगामिनः । भ्रातृजायागामिनश्च भविष्यन्ति कलौ युगे
अगम्यागमनं चैव करिष्यन्ति गृहे गृहे । मातृयोनिं परित्यज्य विहरिष्यन्ति सर्वतः
पत्नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे । प्रजानां चैव ग्रामाणां वस्तुनां च विशेषतः
अलीकवादिनः सर्वे सर्वे चौराश्च लम्पटाः । परस्परं हिंसकाश्च सर्वे च नरघातिनः
ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः । लाक्षा लोहरसानां च व्यापारं लवणस्य च
वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः । शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः
पञ्चयज्ञविहीनाश्च कुहूरात्रौ च भोजिनः । यज्ञसूत्रविहीनाश्च संध्याशौचविहीनकाः
पुंश्चली वार्धुषाजीवा कुट्टनी च रजस्वला । विप्राणां रन्धनागारे भविष्यति च पाचिका
अन्नानां नियमो नास्ति योनीनां च विशेषतः । आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे
एवं कलौ सम्प्रवृत्ते सर्वं म्लेच्छमयं भवेत् । हस्तप्रमाणे वृक्षे च अङ्गुष्ठे चैव मानवे