यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जन्तुषु । जीवन्मुक्तास्तु ते पूता यान्ति काले हरेः पदम्
मद्भक्तियुक्तो मर्त्यश्च स मुक्तो मद्गुणान्वितः । मद्गुणाधीनवृत्तिर्यः कथाविष्टश्च सन्ततम्
मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः । सगद्गदः साश्रुनेत्रः स्वात्मविस्मृत एव च
न वाञ्छति सुखं मुक्तिं सालोक्यादिचतुष्टयम् । ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने
इन्द्रत्वं च मनुत्वं च ब्रह्मत्वं च सुदुर्लभम् । स्वर्गराज्यादिभोगं च स्वप्नेऽपि च न वाञ्छति
भ्रमन्ति भारते भक्तास्तादृग्जन्म सुदुर्लभम् । मद्गुणश्रवणाः श्राव्यगानैर्नित्यं मुदान्विताः
ते यान्ति च महीं पूत्वा नरं तीर्थं ममालयम् । इत्येवं कथितं सर्वं पद्मे कुरु यथोचितम् । तदाज्ञया तास्तच्चक्रुर्हरिस्तस्थौ सुखासने
नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् श्रीनारायण उवाच सरस्वती पुण्यक्षेत्रमाजगाम च भारते । गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे
भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया । वाण्यधिष्ठातृदेवी सा तेन वाणी प्रकीर्तिता
सरो वाप्यां च स्रोतस्तु सर्वत्रैव हि दृश्यते । हरिः सरस्वांस्तस्येयं तेन नाम्ना सरस्वती
सरस्वती नदी सा च तीर्थरूपातिपावनी । पापिनां पापदाहाय ज्वलदग्निस्वरूपिणी
पश्चाद्भागीरथी नीता महीं भगीरथेन च । सा वै जगाम कलया वाणीशापेन नारद
तत्रैव समये तां च दधार शिरसा शिवः । वेगं सोढुमयं शक्तो भुवः प्रार्थनया विभुः
पद्मा जगाम कलया सा च पद्मावती नदी । भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे
ततोऽन्यया सा कलया लेभे जन्म च भारते । धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च
पुरा सरस्वतीशापात्पश्चाच्च हरिशापतः । बभूव वृक्षरूपा सा कलया विश्वपावनी
कलेः पञ्चसहस्रं च वर्षं स्थित्वा तु भारते । जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम्
यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना । यास्यन्ति सार्धं ताभिश्च वैकुण्ठमाज्ञया हरेः
शालग्रामः शक्तिशिवौ जगन्नाथश्च भारतम् । कलेर्दशसहस्रान्ते त्यक्त्वा यान्ति निजं पदम्
साधवश्च पुराणानि शङ्खानि श्राद्धतर्पणे । वेदोक्तानि च कर्माणि ययुस्तैः सार्धमेव च
देवपूजा देवनाम तत्कीर्तिगुणकीर्तनम् । वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्धमेव च
सन्तश्च सत्यधर्मश्च वेदाश्च ग्रामदेवताः । व्रतं तपश्चानशनं ययुस्तैः सार्धमेव च
वामाचाररताः सर्वे मिथ्याकपटसंयुताः । तुलसीरहिता पूजा भविष्यति ततः परम्
शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः । चोराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम्
पुंसो भेदः स्त्रीविभेदो विवाहो वापि निर्भयः । स्वस्वामिभेदो वस्तूनां भविष्यति ततः परम्
सर्वे स्त्रीवशगाः पुंसः पुश्चल्यश्च गृहे गृहे । तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च
गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः । चेटीदाससमौ वध्वाः श्वश्रूश्च श्वशुरस्तथा
कर्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः । विद्यासम्बन्धिभिः सार्धं सम्भाषापि न विद्यते
यथापरिचिता लोकास्तथा पुंसश्च बान्धवाः । सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना
ब्रह्मक्षत्रविशः शूद्रा जात्याचारविवर्जिताः । सन्ध्या च यज्ञसूत्रं च भवेल्लुप्तं न संशयः