भगीरथेन सा नीता गङ्गा यास्यति भारते । पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् । ततः स्वभावतः पूताप्यतिपूता भविष्यति
कलांशांशेन गच्छ त्वं भारते वामलोचने । पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी
कलेः पञ्चसहस्रे च गते वर्षे तु मोक्षणम् । युष्माकं सरितां चैव मद्गेहे चागमिष्यथ
सम्पदा हेतुभूता च विपत्तिः सर्वदेहिनाम् । विना विपत्तेर्महिमा केषां पद्मभवे भवेत्
मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् । युष्माकं मोक्षणं पापाद्दर्शनात्स्पर्शनात्तथा
पृथिव्यां यानि तीर्थानि सन्त्यसंख्यानि सुन्दरि । भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात्
मन्मन्त्रोपासका भक्ता विभ्रमन्ति च भारते । पूतं कर्तुं तारितुं च सुपवित्रां वसुन्धराम्
मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च । तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम्
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः । जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्
एकादशीविहीनश्च सन्ध्याहीनोऽथ नास्तिकः । नरघाती भवेत्पूतो मद्भक्तस्पर्शदर्शनात्
असिजीवी मसीजीवी धावको ग्रामयाचकः । वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्
विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यस्य दायकः । स्थाप्याहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात्
अत्युग्रवान्दूषकश्च जारकः पुंश्चलीपतिः । पूतश्च वृषलीपुत्रो मद्भक्तस्पर्शदर्शनात्
शूद्राणां सूपकारश्च देवलो ग्रामयाजकः । अदीक्षितो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्
पितरं मातरं भार्यां भ्रातरं तनयं सुताम् । गुरोः कुलं च भगिनीं चक्षुर्हीनं च बान्धवम्
श्वश्रूं च श्वशुरं चैव यो न पुष्णाति सुन्दरि । स महापातकी पूतो मद्भक्तस्पर्शदर्शनात्
अश्वत्थनाशकश्चैव मद्भक्तनिन्दकस्तथा । शूद्रान्नभोजी विप्रश्च पूतो मद्भक्तदर्शनात्
देवद्रव्यापहारी च विप्रद्रव्यापहारकः । लाक्षालोहरसानां च विक्रेता दुहितुस्तथा
महापातकिनश्चैव शूद्राणां शवदाहकः । भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात्
महालक्ष्मीरुवाच भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर । येषां तु दर्शनस्पर्शात्सद्यः पूता नराधमाः
हरिभक्तिविहीनाश्च महाहङ्कारसंयुतः । स्वप्रशंसारता धूर्ताः शठाश्च साधुनिन्दकाः
पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् । येषां च पादरजसा पूता पादोदकान्मही
येषां संदर्शनं स्पर्शं ये वा वाञ्छन्ति भारते । सर्वेषां परमो लाभो वैष्णवानां समागमः
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्यपि कालेन विष्णुभक्ताः क्षणादहो
सूत उवाव महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः । निगूढतत्त्वं कथितुमपि श्रेष्ठोपचक्रमे
श्रीभगवानुवाच भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः । पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम्
सारभूतं गोपनीयं न वक्तव्यं खलेषु च । त्वां पवित्रां प्राणतुल्यां कथयामि निशामय
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे पतिष्यति । वदन्ति वेदास्तं चापि पवित्रं च नरोत्तमम्
पुरुषाणां शतं पूर्वं तथा तज्जन्ममात्रतः । स्वर्गस्थं नरकस्थं वा मुक्तिमाप्नोति तत्क्षणात्