निवारितश्च तत्रैव प्रतीहारेण काष्ठवत् । तत्रैव च स्थितो द्वारि मोक्षमेवानुचिन्तयन्
छायायामातपे चैव समदर्शी महातपाः । ध्यानं कृत्वा तथैकान्ते स्थितः स्थाणुरिवाचलः
तं मुहूर्तादुपागत्य राज्ञोऽमात्यः कृताञ्जलिः । प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः
तत्र दिव्यं मनोरम्यं पुष्पितं दिव्यपादपम् । तद्वनं दर्शयित्वा तु कृत्वा चातिथिसत्क्रियाम्
वारमुख्याः स्त्रियस्तत्र राजसेवापरायणाः । गीतवादित्रकुशलाः कामशास्त्रविशारदाः
ता आदिश्य च सेवार्थं शुकस्य मन्त्रिसत्तमः । निर्गतः सदनात्तस्माद्व्यासपुत्रः स्थितस्तदा
पूजितः परया भक्त्या ताभिः स्त्रीभिर्यथाविधि । देशकालोपपन्नेन नानान्नेनातितोषितः
ततोऽन्तःपुरवासिन्यस्तस्यान्तःपुरकाननम् । रम्यं संदर्शयामासुरङ्गनाः काममोहिताः
स युवा रूपवान्कान्तो मृदुभाषी मनोरमः । दृष्ट्वा ता मुमुहुः सर्वास्तं च काममिवापरम्
जितेन्द्रियं मुनिं मत्त्वा सर्वाः पर्यचरंस्तदा । आरणेयस्तु शुद्धात्मा मातृभावमकल्पयत्
आत्मारामो जितक्रोधो न हृष्यति न तप्यति । पश्यंस्तासां विकारांश्च स्वस्थ एव स तस्थिवान्
तस्मै शय्यां सुरम्यां च ददुर्नार्यः सुसंस्कृताम् । परार्ध्यास्तरणोपेतां नानोपस्करसंवृताम्
स कृत्वा पादशौचं च कुशपाणिरतन्द्रितः । उपास्य पश्चिमां सन्ध्यां ध्यानमेवान्वपद्यत
याममेकं स्थितो ध्याने सुष्वाप तदनन्तरम् । सुप्त्वा यामद्वयं तत्र चोदतिष्ठत्ततः शुकः
पाश्चात्यं यामिनीयामं ध्यानमेवान्वपद्यत । स्नात्वा प्रातःक्रियाः कृत्वा पुनरास्ते समाहितः
जनकोपदेशवर्णनम् सूत उवाच॥ सूत उवाच श्रुत्वा तमागतं राजा मन्त्रिभिः सहितः शुचिः । पुरः पुरोहितं कृत्वा गुरुपुत्रं समभ्यगात्
कृत्वार्हणां नृपः सम्यग्दत्तासनमनुत्तमम् । पप्रच्छ कुशलं गां च विनिवेद्य पयस्विनीम्
स च तां नृपपूजां वै प्रत्यगृह्णाद्यथाविधि । पप्रच्छ कुशलं राज्ञे स्वं निवेद्य निरामयम्
कृत्वा कुशलसंप्रश्नमुपविष्टं सुखासने । शुक व्याससुतं शान्तं पर्यपृच्छत पार्थिवः
किं निमित्तं महाभाग निःस्पृहस्य च मां प्रति । जातं ह्यागमनं ब्रूहि कार्यं तन्मुनिसत्तम
शुक उवाच व्यासेनोक्तो महाराज कुरु दारपरिग्रहम् । सर्वेषामाश्रमाणां च गृहस्थाश्रम उत्तमः
मया नाङ्गीकृतं वाक्यं मत्त्वा बन्धं गुरोरपि । न बन्धोऽस्तीति तेनोक्तो नाहं तत्कृतवान्पुनः
इति सन्दिग्धमनसं मत्वा स मुनिसत्तमः । उवाच वचनं तथ्यं मिथिलां गच्छ मा शुचः
याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः । विदेहो लोकविदितः पाति राज्यमकण्टकम्
कुर्वन् राज्यं तथा राजा मायापाशैर्न बध्यते । त्वं बिभेषि कथं पुत्र वनवृत्तिः परन्तप
पश्य तं नृपशार्दूलं त्यज मोहं मनोगतम् । कुरु दारान्महाभाग पृच्छ वा भूपतिं च तम्
सन्देहं ते मनोजातं कथयिष्यति पार्थिवः । तच्छ्रुत्वा वचनं तस्य मामेहि तरसा सुत
सम्प्राप्तोऽहं महाराज त्वत्पुरे च तदाज्ञया । मोक्षकामोऽस्मि राजेन्द्र ब्रूहि कृत्यं ममानघ
तपस्तीर्थव्रतेज्याश्च स्वाध्यायस्तीर्थसेवनम् । ज्ञानं वा वद राजेन्द्र मोक्षं प्रति च कारणम्
जनक उवाच शृणु विप्रेण कर्तव्यं मोक्षमार्गाश्रितेन यत् । उपनीतो वसेदादौ वेदाभ्यासाय वै गुरौ