एकभार्यः सुखी नैव बहुभार्यः कदाचन । गच्छ गङ्गे शिवस्थानं ब्रह्मस्थानं सरस्वति
अत्र तिष्ठतु मद्गेहे सुशीला कमलालया । सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता
इह स्वर्गे सुखं तस्य धर्मो मोक्षः परत्र च । पतिव्रता यस्य पत्नी स च मुक्तः शुचिः सुखी । जीवन्मृतोऽशुचिर्दुःखी दुःशीलापतिरेव च
गङ्गादीनां शापोद्धारवर्णनम् श्रीनारायण उवाच इत्युक्त्वा जगतां नाथो विरराम च नारद । अतीव रुरुदुर्देव्यः समालिङ्ग्य परस्परम्
ताश्च सर्वाः समालोक्य क्रमेणोचुस्तदेश्वरम् । कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च
सरस्वत्युवाच विशापं देहि हे नाथ दुष्टमाजन्मशोचनम् । सत्स्वामिना परित्यक्ताः कुतो जीवन्ति ताः स्त्रियः
देहत्यागं करिष्यामि योगेन भारते ध्रुवम् । अत्युन्नतो हि नियतं पातुमर्हति निश्चितम्
गङ्गोवाच अहं केनापराधेन त्वया त्यक्ता जगत्पते । देहत्यागं करिष्यामि निर्दोषाया वधं लभ
निर्दोषकामिनीत्यागं करोति यो नरो भुवि । स याति नरकं घोरं किन्तु सर्वेश्वरोऽपि वा
पद्मोवाच नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव । प्रसादं कुरु भार्ये द्वे सदीशस्य क्षमा वरा
भारते भारतीशापाद्यास्यामि कलया ह्यहम् । कियत्कालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम्
दास्यन्ति पापिनः पापं सद्यः स्नानावगाहनात् । केन तेन विमुक्ताहमागमिष्यामि ते पदम्
कलया तुलसीरूपं धर्मध्वजसुता सती । भुक्त्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत
वृक्षरूपा भविष्यामि त्वदधिष्ठातृदेवता । समुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे
गङ्गा सरस्वतीशापाद्यदि यास्यति भारते । शापेन मुक्ता पापाच्च कदा त्वां च लभिष्यति
गङ्गाशापेन वा वाणी यदि यास्यति भारतम् । कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव
तां वाणीं ब्रह्मसदनं गङ्गां वा शिवमन्दिरम् । गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः
इत्युक्त्वा कमला कान्तपादं धृत्वा ननाम सा । स्वकेशैर्वेष्टनं कृत्वा रुरोद च पुनः पुनः
(उवाच पद्मनाभस्तां पद्मां कृत्वा स्ववक्षसि । ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः श्रीभगवानुवाच त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि । समतां च करिष्यामि शृणु त्वं कमलेक्षणे
भारती यातु कलया सरिद्रूपा च भारते । अर्धा सा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे
भगीरथेन सा नीता गङ्गा यास्यति भारते । पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् । ततः स्वभावतः पूताप्यतिपूता भविष्यति
कलांशांशेन गच्छ त्वं भारते वामलोचने । पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी
कलेः पञ्चसहस्रे च गते वर्षे तु मोक्षणम् । युष्माकं सरितां चैव मद्गेहे चागमिष्यथ
सम्पदा हेतुभूता च विपत्तिः सर्वदेहिनाम् । विना विपत्तेर्महिमा केषां पद्मभवे भवेत्
मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् । युष्माकं मोक्षणं पापाद्दर्शनात्स्पर्शनात्तथा
पृथिव्यां यानि तीर्थानि सन्त्यसंख्यानि सुन्दरि । भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात्
मन्मन्त्रोपासका भक्ता विभ्रमन्ति च भारते । पूतं कर्तुं तारितुं च सुपवित्रां वसुन्धराम्
मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च । तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम्
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः । जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्