असन्तुष्टां तु तां दृष्ट्वा कोपप्रस्फुरिताधराम् । उवाच गङ्गा तां देवीं पद्मां चारक्तलोचनाम्
गङ्गोवाच त्वमुत्सृज महोग्रां च पद्मे किं मे करिष्यति । दुःशीला मुखरा नष्टा नित्यं वाचालरूपिणी
वागधिष्ठात्री देवीयं सततं कलहप्रिया । यावती योग्यता चास्या यावती शक्तिरेव च
तथा करोतु वादं च मया सार्धं च दुर्मुखी । स्वबलं यन्मम बलं विज्ञापयितुमिच्छति
जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति । इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति
सरिक्त्यरूपा भवतु सा या त्वां च शशाप ह । अधोमर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः
कलौ तेषां च पापानि ग्रहीष्यति न संशयः । इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती
त्वमेव यास्यसि महीं पापिपापं लभिष्यसि । एतस्मिन्नन्तरे तत्र भगवानाजगाम ह
चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः । सरस्वतीं करे धृत्वा वासयामास वक्षसि
बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम् । श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च
उवाच दुःखितास्ताश्च वाचं सामयिकीं विभुः । श्रीभगवानुवाच लक्ष्मि त्वं कलया गच्छ धर्मध्वजगृहं शुभे
अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि । तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि
मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी । भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः
त्रैलोक्यपावनी नाम्ना तुलसीति च भारते । कलया च सरिद्भावं शीघ्रं गच्छ वरानने
भारतं भारतीशापान्नाम्ना पद्मावती भव । गङ्गे यास्यसि पश्चात्त्वमंशेन विश्वपावनी
भारतं भारतीशापात्पापदाहाय पापिनाम् । भगीरथस्य तपसा तेन नीता सुकल्पिते
नाम्ना भागीरथी पूता भविष्यसि महीतले । मदंशस्य समुद्रस्य जाया जायेर्ममाज्ञया
मत्कलांशस्य भूपस्य शन्तनोश्च सुरेश्वरि । गङ्गाशापेन कलया भारतं गच्छ भारति
कलहस्य फलं भुंक्ष्व सपत्नीभ्यां सहाच्युते । स्वयं च ब्रह्मसदने ब्रह्मणः कामिनी भव
गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु । शान्ता च क्रोधरहिता मद्भक्ता सत्त्वरूपिणी
महासाध्वी महाभागा सुशीला धर्मचारिणी । यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः
शान्तरूपाः सुशीलाश्च प्रतिविश्वेषु पूजिताः । तिस्रो भार्यास्त्रिशीलाश्च त्रयो भृत्याश्च बान्धवाः
ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः । स्त्रीपुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान्
निष्फलं च जन्म तेषामशुभं च पदे पदे । मुखे दुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया
अरण्यं तेन गन्तव्यं महारण्यं गृहाद्वरम् । जलानां च स्थलानां च फलानां प्राप्तिरेव च
सततं सुलभा तत्र न तेषां गृह एव च । वरमग्नौ स्थितिर्हिंस्रजन्तूनां सन्निधौ सुखम्
ततोऽपि दुःखं पुंसां च दुष्टस्त्रीसन्निधौ ध्रुवम् । व्याधिज्वाला विषज्वाला वरं पुंसां वरानने
दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते । पुंसां च स्त्रीजितां चैव भस्मान्तं शौचमध्रुवम्
यदह्नि कुरुते कर्म न तस्य फलभाग्भवेत् । निन्दितोऽत्र परत्रैव सर्वत्र नरकं व्रजेत्
यशःकीर्तिविहीनो यो जीवन्नपि मृतो हि सः । बह्वीनां च सपत्नीनां नैकत्र श्रेयसे स्थितिः