तेजस्विनोर्द्वयोर्वादकारणं श्रुतिसुन्दरम् । सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि
श्रीनारायण उवाच शृणु नारद वक्ष्यामि कथामेतां पुरातनीम् । यस्याः श्रवणमात्रेण सर्वपापात्प्रमुच्यते
लक्ष्मीः सरस्वती गङ्गा तिस्रो भार्या हरेरपि । प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ
चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम् । सस्मिता च सकामा च सकटाक्षं पुनः पुनः
विभुर्जहास तद्वक्त्रं निरीक्ष्य च क्षणं तदा । क्षमां चकार तद् दृष्ट्वा लक्ष्मीर्नैव सरस्वती
बोधयामास पद्मा तां सत्त्वरूपा च सस्मिता । क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह
उवाच वाणी भर्तारं रक्तास्या रक्तलोचना । कुपिता कामवेगेन शश्वत्प्रस्फुरिताधरा
सरस्वत्युवाच सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीं प्रति । धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च
ज्ञातं सौभाग्यमधिकं गङ्गायां ते गदाधर । कमलायां च तत्तुल्यं न च किञ्चिन्मयि प्रभो
गङ्गायाः पद्मया सार्धं प्रीतिश्चास्ति सुसम्मता । क्षमां चकार तेनेदं विपरीतं हरिप्रिया
किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् । निष्कलं जीवनं तस्या या पत्युः प्रेमवञ्चिता
त्वां सर्वे सत्त्वरूपं च ये वदन्ति मनीषिणः । ते च मूर्खा न वेदज्ञा न जानन्ति मतिं तव
सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् । मनसा च समालोच्य स जगाम बहिः सभाम्
गते नारायणे गङ्गामुवाच निर्भयं रुषा । वागधिष्ठातृदेवी सा वाक्यं श्रवणदुष्करम्
हे निर्लज्जे हे सकामे स्वामिगर्वं करोषि किम् । अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि
मानचूर्णं करिष्यामि तवाद्य हरिसन्निधौ । किं करिष्यति ते कान्तो ममैवं कान्तवल्लभे
इत्येवमुक्त्वा गङ्गायाः केशं ग्रहीतुमुद्यता । वारयामास तां पद्मा मध्यदेशं समाश्रिता
शशाप वाणी तां पद्मां महाबलवती सती । वृक्षरूपा सरिद्रूपा भविष्यसि न संशयः
विपरीतं ततो दृष्ट्वा किञ्चिन्नो वक्तुमर्हसि । सन्तिष्ठति सभामध्ये यथा वृक्षो यथा सरित्
शापं श्रुत्वा तु सा देवी न शशाप चुकोप ह । तत्रैव दुःखिता तस्थौ वाणीं धृत्वा करेण च
असन्तुष्टां तु तां दृष्ट्वा कोपप्रस्फुरिताधराम् । उवाच गङ्गा तां देवीं पद्मां चारक्तलोचनाम्
गङ्गोवाच त्वमुत्सृज महोग्रां च पद्मे किं मे करिष्यति । दुःशीला मुखरा नष्टा नित्यं वाचालरूपिणी
वागधिष्ठात्री देवीयं सततं कलहप्रिया । यावती योग्यता चास्या यावती शक्तिरेव च
तथा करोतु वादं च मया सार्धं च दुर्मुखी । स्वबलं यन्मम बलं विज्ञापयितुमिच्छति
जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति । इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति
सरिक्त्यरूपा भवतु सा या त्वां च शशाप ह । अधोमर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः
कलौ तेषां च पापानि ग्रहीष्यति न संशयः । इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती
त्वमेव यास्यसि महीं पापिपापं लभिष्यसि । एतस्मिन्नन्तरे तत्र भगवानाजगाम ह
चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः । सरस्वतीं करे धृत्वा वासयामास वक्षसि
बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम् । श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च