प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् । लुप्तं सर्वं दैवयोगान्नवीभूतं पुनः कुरु
यथाङ्कुरं भस्मनि च करोति देवता पुनः । ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः । विसर्गबिन्दुमात्रासु यदधिष्ठानमेव च
तदधिष्ठात्री या देवी तस्यै नित्यै नमो नमः । व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी
यया विना प्रसंख्यावान् संख्यां कर्तुं न शक्यते । कालसंख्यास्वरूपा या तस्यै देव्यै नमो नमः
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः । स्मृतिशक्तिज्ञानशक्तिबुद्धिशक्तिस्वरूपिणी
प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः । सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै
बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः । तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः
उवाच स तां स्तौहि वाणीमिष्टां प्रजापते । स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः
चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् । यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा
बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः । तदा तां स च तुष्टाव संत्रस्तः कश्यपाज्ञया
ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् । व्यासः पुराणसूत्रं च पप्रच्छ वाल्मिकिं यदा
मौनीभूतश्च सस्मार तामेव जगदम्बिकाम् । तदा चकार सिद्धान्तं तद्वरेण मुनीश्वरः
सम्प्राप्य निर्मलं ज्ञानं भ्रमान्धध्वंसदीपकम् । पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः
तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे । तदा त्वत्तो वरं प्राप्य सत्कवीन्द्रो बभूव ह
तदा वेदविभागं च पुराणं च चकार सः । यदा महेन्द्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम्
क्षणं तामेव सञ्चिन्त्य तस्मै ज्ञानं ददौ विभुः । पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम्
दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे । तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम्
उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् । अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः
ते च तां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरीम् । त्वं संस्तुता पूजिता च मुनीन्द्रैर्मनुमानवैः
दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः । जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः
यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः । इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः । ज्योतीरूपा महामाया तेन दृष्टाप्युवाच तम्
सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह । याज्ञवल्क्यकृतं वाणीस्तोत्रमेतत्तु यः पठेत्
स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् । महामूर्खश्च दुर्बुद्धिर्वर्षमेकं यदा पठेत्
स पण्डितश्च मेधावी सुकवीन्द्रो भवे ध्रुवम्
लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् श्रीनारायण उवाच सरस्वती तु वैकुण्ठे स्वयं नारायणान्तिके । गङ्गाशापेन कलहात्कलया भारते सरित्
पुण्यदा पुण्यरूपा च पुण्यतीर्थस्वरूपिणी । पुण्यवद्भिर्निषेव्या च स्थितिः पुण्यवतां मुने
तपस्विनां तपोरूपा तपसः फलरूपिणी । कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी
ज्ञानात्सरस्वतीतोये मृता ये मानवा भुवि । तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि