शातातपश्च संवर्तो वसिष्ठश्च पराशरः । यद्धृत्वा पठनाद् ग्रन्थं याज्ञवल्क्यश्चकार सः
ऋष्यशृङ्गो भरद्वाजश्चास्तिको देवलस्तथा । जैगीषव्यो ययातिश्च धृत्वा सर्वत्र पूजिताः
कवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः । स्वयं छन्दश्च बृहती देवता शारदाम्बिका
सर्वतत्त्वपरिज्ञानसर्वार्थसाधनेषु च । कवितासु च सर्वासु विनियोगः प्रकीर्तितः
श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः । श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदावतु
ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् । ओं श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदावतु
ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदावतु । ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदावतु
ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपंक्तिं सदावतु । ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदावतु । ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदावतु
ॐ ह्रीं विद्याधिस्वरूपायै स्वाहा मे पातु नाभिकाम् । ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदावतु
ॐ सर्ववर्णात्मिकायै स्वाहा पादयुग्मं सदावतु । ॐ वागधिष्ठातृदेव्यै स्वाहा सर्वं सदावतु
ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु । ॐ सर्वजिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु
ॐ ऐं ह्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा । सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु
ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां सर्वदावतु । ॐ ऐं जिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु
ॐ सर्वाम्बिकायै स्वाहा वायव्ये मां सदावतु । ॐ ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा मामुत्तरेऽवतु
ॐ ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदावतु । ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदावतु
ॐ ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु । ॐ ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् । इदं विश्वजयं नाम कवचं ब्रह्मरूपकम्
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने । तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित्
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः । प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् । यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत्
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् । शक्नोति सर्वं जेतुं च कवचस्य प्रसादतः
इदं च कण्वशाखोक्तं कवचं कथितं मुने । स्तोत्रं पूजाविधानं च ध्यानं च वन्दनं शृणु
याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् श्रीनारायण उवाच वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् । महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा
गुरुशापाज्ज स मुनिर्हतविद्यो बभूव ह । तदा जगाम दुःखार्तो रविस्थानं सुपुण्यदम्
सम्प्राप्य तपसा सूर्यं लोलार्के दृष्टिगोचरे । तुष्टाव सूर्यं शोकेन रुरोद च मुहुर्मुहुः
सूर्यस्तं पाठयामास वेदं वेदाङ्गमीश्वरः । उवाच स्तौहि वाग्देवीं भक्त्या च स्मृतिहेतवे
तमित्युक्त्वा दीननाथोऽप्यन्तर्धानं चकार सः । मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः
याज्ञवल्क्य उवाच कृपां कुरु जगन्मातर्मामेवं हततेजसम् । गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम्
ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्यप्रबोधिनीम् । ग्रन्थकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम्